पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
काव्यमाला ।

सा मानुषतनुर्भूत्वा तमुपेत्य धनस्तनी ।
गशव शंतनुं भेजे सुषेणं नाककामिनी ।। १२१ ॥
कासीति प्रच्छनीयाहं न राजन्निति संविदा ।
तां प्राप्य भूमिपालोऽभूत्स्मरसाम्राज्यदीक्षितः ॥ १२२ ॥
रममाणः सह तया रतिमानिव मन्मथः ।
मधुमास इव श्रीमान्त्रवोद्यानमभूषयत् ॥ १२३ ॥
ततः सा गर्भमासाद्य कालेन वसुधाधिपात् ।
असूत तनयां कान्तिसंतानजितचन्द्रिकाम् ॥ १२४ ॥
सावदन्नृपति नाथ स्वस्ति गच्छाम्यहं दिवम् ।
रम्भामवैहि मां देव देवीं देवविलासिनीम् ॥ १२६ ॥
सुताप्रसवपर्यन्तं संगमो मे भुवि त्वया ।
पुनः पुत्र्याः प्रभावान्मे भविता संगमस्त्वया ॥ १२६ ॥
इत्युक्त्वा प्रययौ व्योम्ना तडित्स्फुरितबिनमा ।
कृत्वा भुजङ्गी नृपति वियोगविषमूर्छितम् ॥ १२७ ।।
ततः सुलोचना नाम सा कन्या विभ्रमा विधिः ।
प्रियासमागमायैव बवृधे नृपतेः शनैः ।। १२८ ॥
तां यौवनवसन्तेन संगतं स्तबकस्तनीम् ।
श्यामामपश्यद्दयुतिमान्काश्यपो मुनिपुत्रकः ॥ १२९ ।।
अभिलाषवतीं दृष्ट्वा स तां हरिणलोचनाम् ।
युवा ययाचे नृपतिं स्मस्तप्तः सुलोचनाम् ॥ १३० ॥
याचितो मुनिना सोऽथ प्रोवाच वसुधाधिपः ।
रम्भावृत्तान्तमाबेद्य शनैर्विरहनिःसहः ॥ १३१ ॥
समागमे मे रम्भाया तनया संभविष्यति ।
अनीश्वरोऽस्मि दानेऽस्या मुने सत्संगमावधि ॥ १३२ ।।


२. 'शेख. ३. “सत्तमः ख..४. "स्वयं ख. ५. 'सरस्मेर'

"समागमाय:ख.