पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मदनमधुके-सुलोचनाख्यायिका ।]
बृहत्कथामञ्जरी ।

चर्मावनद्धं पश्येदं वारि स्तोकं न लोचनम् ।
अस्मिन्मनोहरं मातः किं कुत्सितशरीरके ।। १०९।।
इति तस्य गिरा साधि विरक्ता जिनसाध(शास)नम् ।
प्रपेदे जल्मसंतापजरामरणवारणम् ॥ ११० ॥
इति बैराग्यावदानम् ॥ ६ ॥
कलिङ्गदत्तः श्रुत्वेति बुद्ध सद्धर्मदेशनम् ।
अशृणोद्ब्राह्मणवचः कन्यकाजन्मदुःखितः ।। १११ ॥
कुमारीजन्मना राजन्कि वृथा परितप्यसे ।
पुत्रैरशक्यं सत्कर्तुं तत्सुताभिरवाप्यते ॥ ११२ ॥
सुषेण इति भूपालश्चित्रकूटाचलेऽभवत् ।
कर्पूरकर्णपूरोऽभूद्यद्यशः सुरयोषिताम् ॥ १.१३ ॥
कान्तावर्गसमारम्भः प्रिया त्वस्य गुणाधिका ।
न विना चन्द्रिका लक्ष्मीश्चन्द्रे कान्ते प्रसीदति ॥ ११४ ॥
स निर्ममे नवोद्यानं विमानमिव गां गतम् ।
संकेतसद्म कामस्य बसन्तमिव कल्पितम् ॥ ११५ ॥
रममाणः सदा तस्मिन्स नानाकुसुभोज्ज्वले ।
ननन्द नन्दनगतः शतक्रतुरिवापरः ।। ११६ ।।
कदाचिन्नयनानन्दनिस्यन्दमधुवाहिनी ।
गीर्वाणनर्तकी रम्भा तं ददर्शाथ तां च सः ॥ ११७ ॥
सा तं विलोक्य सच्छायं श्रृङ्गारसुरपादपम् ।
सर्वातिशायिनिर्माणपुण्याहमिव वेधसः १. ११८ ।।
स च तां वीक्ष्य पूर्णेन्दुनवलावण्यचन्द्रिकाम् ।
कौशिकीरसिकस्येव कामस्य रतिभूमिकाम् ॥ ११९ ॥
बभूवतुः सरशरासारसंनिभमानसौ।
तत्पक्षपवनेनेव सरोमोद्गमवेपथू ॥ १२० ॥


१. निज' ख: २. बहुशो धर्मदेशतः' ख. ३. सेन ख. ४. तटे' ख. ५. 'का.

न्ताव, स नारेस्त प्रियां तुल्यगुणां विना' ख. ६.न्तेनेच ख. ७. शायिनिर्माण ख.