पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
काव्यमाला ।

राजपुत्रः प्रबुद्धोऽपि प्रिया दृष्ट्वा मुनेः पुरः
तंजघानेर्ष्यैया प्रस्तः खड्गेन निरयग्रहः ॥ १८ ॥
तेनाहतोऽयि बहुशः शस्त्रेण न चुकोप सः ।
सत्यं सुहृदि शत्रौ च शमिनां सदृशा दृशः ॥ १९ ॥
निर्दग्धुमुद्यताः पापं तं तपोवनदेवताः ।
अवारयत्कृपापूर्णः स क्षमामागतो मुनिः ।। १०० ॥
खड्गप्रहारनिलनगात्रोऽपि मुनिसत्तमः ।
तथैव देव्या संस्पृष्टो बभूव स्वच्छविग्रहः ।। १०१ ॥
इति क्षमावदानम् ॥
कुमायः सप्त रूपिण्यो भूपालस्य हुकेः सुताः ।
ययुः श्मशानं वैराग्यात्त्यत्तसंसारवासनाः ॥ १०१।।
खजनेनार्थिताः प्राहुस्ताः शरीरमिदं हि नः ।
अस्थिमांसशिराचर्मसंवीतमपि कुत्सितम् ॥ १०३ ॥
अस्मिन्काये श्मशाने च को विशेषः अदृश्यते
पच्यन्ते सततं अन्न वह्निना सप्त धातवः ।। १०.३॥
विरतो राजपुनः प्राङियतो तो भिक्षुकव्रतः ।
दृष्टः प्रविष्टो भिक्षायै कयाचिद्वरयोषिता ।। १०५
तं रूपमिव रूपस्य यौवनस्येव यौवनम् ।
विलोक्य कामवशगा भिक्षादानोद्यताभवत् ॥ १०६ ॥
अहो सुभग रूपं ते मानसामृतदीधितेः
वर्षतीवामृतं दृष्टिस्तब राजीवलोचन ॥ १०७ ॥
इति लोचनसौन्दर्यविचाराधिकसस्पृहाम् ।
ता वीक्ष्य निजमुत्पाट्य लोचनाब्जसुचाच सः ।। १०८ ॥


है "

'क्षमासामरो' ख ५ पञ्च ख. कले सो कथासरित्सागरे तु कृतनानो महीपतेः' इत्येव पाठः रूपवान्पो- रयोषिता