पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चुके-क्षमावदानम् ।]
१६५
बृहत्कथामञ्जरी ।

श्रुत्वेति तद्वचो राजा तुष्टः सत्यनिवेदनात् ।
ताभ्यां वसु ददौ को हि सद्भावेन न तुष्यति ॥ ७ ॥
इत्येवं सत्त्वसारेण प्राप्ता कान्ता द्विजन्मना ।
क्लीबेन सत्त्वहीनेन कातरेण तु हारिता ॥८॥
इति विक्रमसिंहाख्यायिका ॥ १ ॥
राज्ञः कलिङ्गदत्तस्य श्रुत्वेति वचनं प्रिया ।
तारादत्ता वरानन्दमुन्निद्रवदना बभौ ॥ ९ ॥
अथ कालेन संपूर्णदोहदाहृतिशालिनी ।
असूत सा सुतां देवी द्यौः शशाङ्ककलामिव ।। ९० ॥
जातां पुत्री नृपः श्रुत्वा बभूव विमना इव ।
चिन्ता मूर्तिमती कन्या कस्य प्रीणाति मानसम् ॥ ११ ॥
स चिन्तास्तिमितो गत्वा विहारं शंभुमन्दिरे।
शुश्राव धर्म भिक्षूणां तत्र मोहप्रशान्तये ॥ १२ ॥
अहिंसा परमो धर्मः संन्यासः परमं धनम् ।
कारुण्यं परमः कामो मोक्षश्च परमः क्षमा ||९३ ॥
क्षमैव सर्वसत्त्वानां पुण्यपीयूषवाहिनी ।
मैत्री च सर्वभूतेषु संसारभरुवारिदः ॥ ९ ॥
पुरा तपोवनोपान्ते राजपुत्रः प्रियासखः ।
थिललासानिलालोलबालचूतलतावने ॥ ९५ ॥
रतिश्रान्त्याथ सुप्तस्ताः कुतूहलविनिश्चलाः ।
चपला राजपुत्र्यस्ता विचेरुः केलिकानने ॥ ९६ ।।
तदुपात्ते मुनिं ध्यानमीलिताक्षं विलोक्य ताम् ।
तस्थुर्मत्ता विलासिन्यः कुतूहलविनिश्चलाः ॥ १७ ॥


१. 'परा' ख... २. 'सुधाद' ख. ३. 'मश्रवणे ख. ४. निन्दा ख. ५. "समारे

मधुवारिदम् ख... ६. 'रतिश्रान्तेऽथ सुते ता' इति भवेद 'रतिश्रान्ते मधुमदात्त- सिन्निद्रावर्शगते ख.