पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
काव्यमाला ।

पितृभ्यां विप्रयुक्तोऽहं बालो विप्रः पुरा नृए ।
नियुद्धशस्त्रकुशलो द्यूतकृहुमदोऽभत्रम् ॥ ७९ ॥
याति काले नबोद्वाहामपश्यं पथि योषितम् ।
युन्याधिरूढां प्रत्यग्रमङ्गलाबद्धकङ्कणाम् ।। ७६ ॥
अत्रान्तरे महावेगः स्फोटितालानशृङ्खलः ।
तां विवाहमहावाद्यकृषितः कुञ्जरोऽन्ययात् ।। ७७ ।।
त्यक्त्वा तां द्विरदत्रासात्प्रयातेष्वनुयायिषु ।
गजो जिघृक्षुस्तां प्राप मुखाज्वां (१) नलिनीमित्र ॥ ७८ ॥
दृष्ट्वाहमतिकारुण्यान्नादेनाढ्य वारणम् ।
वञ्चयित्वा श्रमाभ्यासाद्विह्वलां ताममोचयम् ॥ ७९ ॥
तस्मान्महाभयान्मुक्ता यावदन्मां सुलोचना ।
वल्लभस्त्वं जनस्वास्य प्राणानामधुना विभुः ।। ८० |
त्यक्तास्मि येन संत्रासादिग्धिक्तं कातरं नरम् ।
नाह संदूषिता तेन न च स्प्रक्ष्यामि तं जडम् ।
प्रच्छन्नानुगतस्त्वं मामनचिरासमवाप्स्यसि ॥११॥
इति मे संविदं कृत्वा संगता स्वजनेन सा ।
ययौ भर्तृगृह तन्वी भय्येवार्पितमानसा ॥ ८२ ॥
तामेवानुप्रयातोऽहं प्रेमपाशवशीकृतः !
प्रच्छन्नवृत्तिर्बद्धाशः शून्यदेवगृहे स्थितः ॥ ८३ ॥
तत्रापश्यमिमं विप्रमहं प्रच्छन्नकामुकम् ।
तस्या भर्तुः स्वसुगुंढरूढरागैकभाजनम् ॥ ८४ ॥
अनेन जातसौहार्दस्ततस्तां कामिनीमहम् ।
कृत्वा गूढमयं प्राप्तस्तापनिर्वापणौषधिम् ॥ ८५ ।।
जामिं च तस्याः प्राप्यायं सुहृन्मे निर्वृतोऽभवत् ।
तदर्थं देव संलापः शून्येऽभूञ्चिरमावयोः ॥ ८६ !]


* *पुष्प क. २. प्रेक्षा ख. ३. 'तुन ख. ४. 'प्रौढ ख.