पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मदनमञ्चुके-विक्रमसिंहाख्यायिका ।]
१६३
बृहत्कथामञ्जरी ।


अस्ति गौरीव नगरी चन्द्रचूडस्य वल्लभा ।
श्रीमत्युज्जयिनी नाम जननी जनसंपदाम् ॥ १३ ॥
तस्यां विक्रमसिंहोऽभूभूमिपालो महाबलः ।
निःशेवविजितारातिर्यस्य युद्धं मनोरथः ॥ ३४ ॥
दुर्पकण्डूलदोर्दण्डं तं युद्धगतमानसम् ।
उवाचामरगुप्ताख्यः कदाचिन्मन्त्रिपुंगवः ॥ १५ ॥
देव बाणोऽसुरः पूर्वं सहस्रभुजदुर्मदः ।
ययाचे त्रिपुराराति योद्धा में दीयतामिति ॥ १६ ॥
ततो नियुद्धसंबन्धयुद्धसंनद्धचेतसा ।
माधवेन निकृत्यास्य चक्रेण भुजमण्डली ॥१७॥
अभिमानोऽवमानाय दृप्तानामिह भूभुजाम् ।
युद्धप्रतिनिधिर्देव मृगयास्ति नृपोचिता ॥ १८॥
मुनीनां प्रतिकूल्येन प्रौदादरवाजिनाम् ।
राज्ञामतिप्रसङ्गाश्च मृगया दुःखदायिनी ।
तस्मान्मृगरणक्रीडां भज व्यसनवर्जितः ।।६९॥
इति मन्त्रिगिरा राजा सानुगः प्रययौ वनम् ।
कुञ्जरकोडशरभेदीपिकेसरिसंकुलम् ॥ ७० ॥
ततः कृतश्रमोऽन्येत्य लीलाहतवनेचरः ।
विनिवृत्तो ददर्शाग्रे कथासक्तौ मिथो नरौ ॥ ७१ ॥
एकान्ते चिरसंलापौ तौ दृष्ट्वा शङ्कितो नृपः ।
चौराविति तदाह्वाने प्रतीहारमचोदयत् ॥ ७२ ॥
प्रतीहारसमाहूतौ सर्वास्थानं महीपतेः ।
ततस्तौ ब्राह्मणौ प्रातः प्रविष्टौ भयकम्पितौ ॥ ७३ ।।
दत्ताभये नरपतौ खवृत्तं कथ्यतामिति ।
तयोरेकोऽब्रवीद्राजन्श्रूयतां नौ विचेष्टितम् ॥ ७१ ॥


'कथ्यतामिति वादिनि ख.