पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
काव्यमाला ।

चण्डालोऽपि विलोक्यैव कुत्सयन्मत्स्यघातकान् ।
पुष्णति प्राणिभिः प्राणान्विगेतानित्यचिन्तयत् ॥ १२ ॥
चिन्तयित्वेति तौ यातौ त्रिदिवं तीर्थसेवया।
जन्मान्तरे क्षेत्रफलाज्जातिस्मरपदं श्रितौ ।। ६३ ।।
पर्यन्तभावसदृशं प्रापतुश्च कुलं पृथक् ।
द्विजोऽभूद्धीवरसुतश्चण्डालश्च द्विजात्मजः ।
शुद्धयशुद्धी हि चित्तस्य जन्तूनां सुखदुष्कृतेः ।। ५४ ॥
इति विप्रचण्डालाख्यायिका ॥२॥
उपाध्यायो द्विजः कश्चित्कुण्डिने नगरे पुरा ।
सप्तभिः सहितः शिष्यैर्दुर्भिक्षे क्षुधितोऽभवत् ॥ ५९॥
गत्वा मच्छ्वशुरातूणै गामानयत पुत्रकाः ।
तत्क्षीरेणास्तु नो वृत्तिरिति शिष्यानुवाच सः ।। ६६ ।।
शिष्यास्तदाज्ञया गत्वा गुरुश्वसु(शु) रमन्दिरम् ।
गामादाय परावृत्ताः प्राप्य गां विषमेऽध्वनि ।
निराहारा निपतिताः श्वासशेषा व्यचिन्तयन् ॥ १७ ॥
अस्मिन्मरुतटे प्राप्तो मृत्युरस्माभिरुत्कटे ।
अस्मद्विनाशे गौरेषा विनङ्क्ष्ययति गुरुस्तथा ॥ १८ ॥
तदलं संविधानेन गामेतां याजिनो वयम् ।
भुक्त्वा प्राणानवाप्स्यांमस्तेषु धर्मः प्रतिष्ठितः ॥ १९ ॥
चिन्तयित्वेति बहुशो विशस्य विधिनैव गाम् ।
तद्यागशेषा भुक्त्वा ते शिष्या गुरुगृहं ययुः ॥ ६ ॥
यथावृत्तं निवेद्यास्सै निःसङ्गाः सत्यवादिनः ।
जातिस्मरास्तद्वराते शिष्याः प्रापुः परां गतिम् ॥ ११ ॥
इति शिघ्याख्यायिका ॥ ३ ॥
इति सत्त्वविशुद्धानां सतामायान्ति संपदः ।
सजन्तिः सत्वहीनांस्तु दारा अपि निरादराः ॥ १२ ॥