पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मदनमञ्चुके-विप्रचण्डालाख्यायिका ।]
१६१
बृहत्कथामञ्जरी।

अन्यस्मिञ्जन्मनि विभो कुम्भदासी वैणिग्गृहे ।
अभवं देवदासश्च भर्ताभून्मम मंद्विधः ॥ ४० ॥
तदावा सर्वदुर्भिक्षे परपिण्डोपजीविनौ ।।
याचितावर्थिनाभ्येत्य शुरक्षामेन द्विजन्मना ।
दत्वा स्वमशनं तस्मै तच्छेषकृतभोजनौ ॥ ४१॥
सदा मम पतिः शोकानिधनं समवाप्तवान् ।
तस्यानुमरणादस्मि जाता जातिस्मरा विभो ॥ ४२ ॥
इति कोशलभूपालः श्रुत्वा जायावचो रहः ।
देवदासोऽहमेवेति जाति सोऽप्यस्मरन्निजाम् ॥ ४३ ॥
जाति स्मृत्वा तयोर्दिव्यं धाम धथै प्रपन्नयोः ।
पितृभ्यामथ हीनाहं भातुः खस्रा विवर्धिता ॥ ४ ॥
कन्ययैव ततः कश्चिन्मुनिरभ्यागतो मया ।
आराधितः पुरा कुन्त्या पार्थजन्मभुवा यथा ॥ ४६॥
तद्वरात्वां बरं देव लोकनाथशिरःस्थितम् ।
अमिताभनमवाप्याहं प्राप्ता सीमन्तिनीपदम् ॥ ४६॥
इत्याकर्ण्य नृपः प्राह देवी सत्यवतां मतिः ।
अमोधामृतसूः कामधेनुरन्येषु जन्मसु ॥ ७ ॥
त्वत्पिता सुगतिं प्राप्तः सत्त्वादेव प्रियासखः ।
सत्वप्रकाशाद्वसतिः सतां हि दिवि शाखती ॥ १८ ॥
गङ्गाकूले पुरा विप्रचण्डालश्च जलार्थिनौ ।
चक्राते त्यक्तुमात्मानं निषेव्यानशनव्रतम् ॥ ४९ ॥
नियमस्थौ ददृशतुस्तौ निषादजनं ततः ।
प्रत्यप्रदृष्टमत्स्यौधभोजमव्यमग्रतः ॥ ५० ॥
द्विजस्तान्वीक्ष्य मत्स्यादांल्लौल्यादन्नोदकाकुलः ।
तस्थावनशनक्षामो निगिरन्निव सस्पृहम् ॥ ११ ॥


'मागधः ख. २. 'तोऽह सर्व ख. ३. शान्तराख. ४. 'रान्वितौ न,

"विचित्य ख.६. गणेरेह ख.