पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
काव्यमाला ।

मत्प्रदिष्टैरिति श्रुत्वा पात्रहस्तो ययौ दणिक् ।
समुद्यतासिभिर्भीमः पात्रपातप्रहारिभिः ॥ २९ ॥
तैलभाजनमादाय बभ्राम निखिला पुरीम् ।
प्रान्त्वा नृपान्तिकं पार भयादच्युतभाजनः ।॥३०॥
हृष्टः प्रोवाच राजानं देवादेशः कृतो भया ।
न दृष्टं न श्रुतं किंचिदुत्सवेऽस्मिन्महाजने ॥ ३१ ॥
ध्यानैकात्रेण पात्राग्रे न्यस्तं नेत्रद्वयं मया ।
निशम्येत्यवदद्राजा मोक्षवर्त्मैवदेव यत् ॥ ३२ ॥
सर्वतो विनिवृत्तस्य ध्यानैकाग्रे भनोगतः(म्) ।
इत्याग्रहेण वणिजश्चकारानुग्रहं नृपः ।। ३३ ।।
इति रत्नदत्ताख्यायिका ॥ १ ॥
एवं स सर्वजनतातारणेऽभूत्कृतोद्यमः ।
तारादत्ताभिधानस्य बभूव नृपतेः प्रिया !
क्षमेवोत्तमसत्त्वस्य करुणेचार्द्रचेतसः ॥ ३ ॥
अत्रान्तरे सुरेन्द्रेण यात्रायां विबुधाङ्गना ।
शप्ता सुरभिदत्ताख्या विद्याधररत्ता दिवि ॥ ३ ॥
सा शक्रशापपतिता जनने गर्भमाविशत् ।
राज्ञः कलिङ्गदत्तस्य जायायाः खप्नसूचिता ॥ ३३ ॥
दोहदापाण्डुरमुखी रजनीवेन्दुमण्डिता ।
तारादत्ताभवत्प्रीत्यै नितरामथ भूपतेः ॥ १७ ॥
ततः सा रत्नदीपस्य शिखयेवान्तराश्रिता ।
ददर्श राज्ञी निखिला प्राग्जन्मस्थितिमात्मनः ॥ ३८ ॥
जातिस्मरा नृपं प्राह पुरा में जननी विभो ।
नागलक्ष्मीः प्रियं प्राह धर्मदत्त महीपतिम् ॥ ३९ ॥


'सोऽनुयातः स.

है तानतु ख. .७. इहैव देशे विनस्य माधवाश्यस्य कस्यचित, 'गृहे- हमर दासी सुवृत्ता पूर्वजन्मनि कथा.