पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मदनमञ्चुके-रत्नदत्ताख्यायिका ।]
१५९
बृहत्कथामञ्जरी ।

ततः स भ्रान्तहृदयो वेपमानः कृताञ्जलिः ।
भीतः प्रसादयामास जनकस्तस्य भूपतिम् ॥ १७ ॥
तद्वाक्यान्नृपतिस्तस्य चक्रे भासद्वयावधिम् ।
वधे तद्वासरारम्भमुहूर्तगणनायुषः ॥ १८ ॥
भयाद्विगतनिद्रोऽथ विवर्णो निःसुखः कृशः ।
मरणं प्रत्यहं ध्यायन्सोऽकम्पत वणिक्सुतः ॥ १९ ॥
कङ्काल इव निर्मासः सोऽस्थिशेषतया नरः ।
जाते मासद्वये मेने कृतान्तं शिरसि स्थितम् ॥ २० ॥
ततो राज्ञा समाहूतो बधायावधिवासरे ।
दृष्टश्चिन्ताज्वरग्रस्तः स भीतो वणिजः सुतः ॥ २१ ॥
तमाह राजा चकितं कृशोऽसि बत निष्प्रभः ।
दृश्यसे स्नायुशेषाङ्गो ध्यायन्मरणजं भयम् !! २२ ॥
मासद्वयावधेर्भीतो मूर्ख किं परितप्यसे ।
मरणस्यावधिर्नास्ति मुहूर्तमपि देहिताम् ॥ २३ ॥
एवंविधं भयं नृणां सर्वदैवोपपद्यते ।
को हि निद्रां समायाति मृत्युदन्तान्तरे स्थितः ॥ २४ ॥
ज्ञात्वेति धर्मपन्थानं श्रय दुःखौघशान्तये ।
धर्म एव प्लवः पुंसां संसारमकराकरे ॥ २५ ॥
श्रुत्वेति वणिजा पृष्टः कथं मुक्तिरिति प्रभुः ।
प्राह लोकोतरं धर्मं वक्ष्यामीति नरेश्वरः ॥ २६ ॥
ततस्तृतीयेऽह्नि पुनभूमिपालस्तमभ्यधात् ।
आदायोत्सवयात्रायां संपूर्ण तैलभाजनम् ॥ २७ ॥
प्रदक्षिणी कुरु पुरी बिन्दुमात्रमपातयन् ।
पतेद्यदि ततो बिन्दुहन्यसे खड्गपाणिनिः ॥ २८ ॥


“एरः' ख. २. निविग्णो' : व. ३. 'यो भयातुरः स्व. ४. 'ग्रह ख. 'नीतो' ६. 'ततस्त्वं' र.