पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
काव्यमाला ।

अदर्शन करं नीत्वा संदर्श्य स्वाङ्गुलीद्वयम् ।
द्वावप्यभेद्यौ तिष्ठन्तु पञ्चेत्यहमथाभ्यधाम् ॥ १३३ ॥
इति मे बुद्धिविभवं दृष्ट्वा विस्मयमाययुः ।
राजा च शकटालश्च ये चान्ये तत्र संगदाः ॥ १३४ ॥
एवं नन्दशरीरस्थः संभोगासक्तमानसः ।
इन्द्रदत्तो विसस्मार ब्राह्मण्यं कोषमाश्रितः ॥ १३५ ॥
तस्य लक्ष्मीमदान्धस्य संभोगासक्तचेतसः ।
ईर्ष्यालोर्ददृशुर्नैव मरुतोऽपि वधूजनम् ॥ १३ ॥
स कदाचित्प्रियां तुङ्गवलभीशिखरस्थितः ।
तिथिप्रश्ने द्विजन्मानं भाषमाणां प्रिय वचः ॥ १३७ ॥
विलोक्य क्रोधविवंशो अकुटीकुदिलाननः ।
ब्राह्मणस्य वर्षे क्षिभं दण्डवासिकमभ्यधात् ।। १३८ ।
स तीव्रशासनेनाशु राज्ञा दिष्टः पुराधिपः ।
निनाय निग्रहस्थानं ब्राह्मणं संभ्रमाकुलम् ॥ १३९ ॥
कृष्यमाणं महाकायद्विजमालोक्य वर्त्मनि ।
जहास विक्रयन्यस्तो मत्स्यो विगतजीवितः ॥ १४ ॥
तदृष्ट्वा महदाश्चर्यं निवृत्तो दण्डवासिकः ।
व्यजिज्ञपन्महीपालं राज्ञा पृष्टा वयं च तत् ॥ १४१ ॥
शकटालप्रभृतिषु क्ष्मापतेः क्षणमन्तिके
विस्मयध्यानमूकेषु ध्यात्वा पृष्टोऽहमभ्यधाम् || १५२ ।।
निवार्यतां मद्वचसा ब्राह्मणो वधसाहसात् ।
प्रैलतास्स्यद्भुतं प्रातमत्स्यहासस्य कारणम् ॥ १४३ ॥
इत्युक्त्वाहं त्रिपथगां गत्वा निशि निशातधीः ।
अप्रच्छं मत्स्यहासस्य हेतु पृष्टाब्रवीच्च सा ॥ १४४॥


स सदइयो लिया . २. हो मुख्य स. ३.

वकताम्खा ६. विधुरो स.८.पुरावाहिः रखा स्था मात्र प्रवक्ष्याम्म