पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.कथापीठे-योगनन्दमत्यहासका। ।।
१७
वृहत्कथामञ्जरी

ततो नन्दशरीरस्थो दग्धदेहोऽतिदुःखितः ।
इन्द्रदत्तो रहः प्राह मां व्याडिं आश्रुगद्गदः ।। १२० ॥
द्विजो भूत्वाः कथं लोभादस्मिञ्शूद्रकलेवरे ।
स्थास्यामि शकटालेन निर्दग्धनिजविग्रहः ॥ १११ ।।
इति दुःखाकुलं ब्याडिरह च नृपतिं शनैः
वीतशोकं समाधाय तद्राज्ये मन्त्रिता श्रितौ ॥ ११२ ॥
गूढं निबद्ध मूलोऽपि विनाशभयशङ्कितः ।
सततं नृपतिर्वैरं शकटाले व्यचिन्तयत् ।। १२३ ।।
योगनन्दोऽथ कालेन मन्त्रयित्वा चिरं मया ।
बद्धान्धकूपे चिक्षेप शकटालं सुतैः सह ।। १२.४ ॥
बद्धः पुत्रशतं प्राह माप्यैकं पुरुषाशनम् ।
सोऽश्नातु यः प्रतीकारे शक्तो भूमिपतेरितिः ॥ १२६ ॥
अशक्ता वयमित्युक्ते तैः स सद्भुक्तवांस्तदा ।
उपवासकृशाङ्गाश्च तत्र ते निधनं ययुः ॥ १२ ॥
योगनन्दोऽपि संप्राप्य विभूति रतिमाययौ ।
कुम्भेषु च करीन्द्राणां कुचेषु च मृगीडशाम् ॥ १२ ॥
गुरवे दक्षिणां दत्वा विमुखो भव संततेः'
व्याडी विरक्तहृदयः समामय विनिर्ययोः ॥ १३८ ।
इति नन्दस्य साचिव्यं प्राप्तस्य मम जाह्नवी ।
भक्त्या बभूव वरदा सदा हेमशतप्रदा ॥ १२९ ॥
ततः कालेन करुणाकूणितेन भया नृपम् ।
विबोध्य शकटालोऽपि तमाकूपाद्विमोक्षितः ॥ १३ ॥
पुनर्मन्त्रिपदं प्राप. मदेकशरणः सदा ।
प्रदध्यौ मनसा वैरं शकटालो महीपतेः ॥ १३१ ॥
कदाचिदथ गङ्गायां करपञ्चनिजाङ्गुलीः
दर्शयन्तं ततो दृष्ट्वा मामपृच्छत्सकौतुकः ।। १३२ ॥


'ततः वा