पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
काव्यमाला ।

इत्याकर्ण्याद्भुतं सर्वे विस्मितास्ते सभासदः ।
ददृशुस्तां समुद्धाट्य मषीलिप्तान्दिगम्बरान् ॥ १०९ ॥
ततो विदितवृत्तान्तस्तान्निगृह्य महीपतिः ।
धनेन धर्मभगिनीमुषकोशामपूजयत् ॥ ११० ॥
अत्रान्तरे वराच्छंभोः स्मृतव्याकरणोऽप्यहम् ।
श्रुत्वा निजगृहोदस्त प्रहृष्टो गुरुमभ्यगाम् ॥ १११ ॥
उपकोशाख्यायिका ॥२॥
प्रतिश्रुत्य गुरोस्तत्र हेमकोटीश्चतुर्दश ।
व्याडीन्द्रदत्तसहितः प्रयातो नन्दभूपतिम् ।। ११२ ॥
एकोनं जातरूपस्य यस्य कोटीशतं गृहे ।
तस्याथ नन्दनृपतेरेककोट्यर्थिनः शनैः ।। ११३ ॥
प्रतिष्ठानपुरं हृष्टा यस्मिन्नेव दिने गताः
तस्मिन्नेव दिने दैवात्सः भूपालो न्यपद्यतः ॥ १६४ ॥
अकालाशनिसकाशं तच्छुत्वा दुःखिता वयम् ।
दिनैकजीवने राज्ञो लोमान्मन्त्रं समास्थिताः ॥ ११५ ॥
अथेन्द्रदत्तः संमन्त्र्य संत्यज्य निजविग्रहम् ।
विवेश राज्ञो योगेन शरीरमनिलोपमः ॥ १.१६ ॥
तस्मिन्प्रविष्टे सहसा समुत्तस्थौ स भूपतिः ।
व्याडिं निधाय रक्षार्थमिन्द्रदत्तकलेबरे । ११७ ॥
अभ्येत्य याचितो राजा स मया गुरुदक्षिणाम् ।
इन्द्रदत्तसमाविष्टः सुप्तोत्थित इवाथ सः ।
मन्त्रिणः शकटालाख्यं दीयतामित्यभाषत ॥ ११८ ॥
केनाप्याविष्टदेहोऽयमिति निश्चित्य बुद्धिमान् ।
अबाइयमन्त्रिवर सोऽन्धिष्य प्रेतविग्रहान् ॥ १.१९ ॥


लक्षमा स्व. प्रविधा नगरे, ख. ३. वयम् ख. ४. 'यनम् ।