पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.कथापीठे-उपकोशाख्यायिका ।।
१५
बृहत्कथामञ्जरी

हिरण्यगुप्तस्तामाह भज मां चारुलोचने ।
तव भर्त्रा विनिक्षिप्तं विद्यते सुतनो धनम् ॥ ९७ ॥
सा श्रुत्वेत्यवदत्तारं शृण्वन्तु गृहदेवताः ।
भूतानि साक्षिणः सन्तु विद्यात्तेऽस्मिन्धनं मम ॥ ९८ ॥
इत्युक्त्वा स्नानकूटेन कृत्वा तमपि कज्जलैः ।
दुष्प्रेक्ष्यमब्रवीत्क्षीणा क्षपा गच्छेति सत्वरम् ॥ ९९ ॥
वणिक्संतर्जनभयात्प्रययौ संवृताननः ।
भक्ष्यमाणो लुब्धकानां कृतकोलाहलैः श्वभिः ॥ १०० ॥
इति रक्षितचारित्रा गते तस्मिन्मनस्विनी ।
प्रातर्नन्दस्य नृपतेः सर्वास्थानसभां ययौ ॥ १०१ ॥
उपवर्षस्य दुहिता भार्या वररुचेः सती ।
प्राप्तेत्यावेदिता तत्र मानिता भूभुजावदत् ॥ १०२ ।
निह्णुतं वणिजा राजन्मम भर्तुर्धनं बहु ।
न्यासं हिरण्यगुप्तेन प्रमाणमधुना नृप ॥ १०३ ॥
ततस्तस्मिन्समाहूते प्राप्ते वितथवादिनि ।
उपकोशावदद्देव साक्षिणः सन्ति मे गृहे ॥ १०४ ॥
आनीयन्तां मम गृहाद्देवताः कोष्टकस्थिताः ।
ता वक्ष्यन्ति यथातथ्यमित्युक्त्वा विरराम सा ॥ १०५ ॥
नृपाज्ञया समानीते मञ्जूषाकोष्ठके नरैः ।
विन्यस्ते च सभामध्ये पुनराह पतिव्रता ॥ १०६ ॥
भो भो सततपूजाढ्याः सत्यं मे ब्रूत देवताः ।
क्षिप्रं दहामि मञ्जूषां साक्ष्ये चेन्मौनमाहितम् ॥ १०७ ॥
श्रुत्वेति भीतास्ते प्राहुः सत्यमस्त्येव ते धनम् ।
हस्ते हिरण्यगुप्तस्य साक्षिणोऽत्र त्रयो वयम् ॥ १०८ ॥


१. 'हासिनि ख. २. 'सुश्च में ख. ३. प्रातर्ज ख. ४. 'लुक्षमानाम्बरो मार्ग

कृतकोलाइ जनै ख. 'लज्जमानो निज गृहम् इति कथा०. “पूजाही स्त्र ६. 'भा में धनम्' का