पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
काव्यमाला ।

कीर्णोत्पला इव दृशो विधाय चकितेक्षितैः ।
प्रस्तुतापह्नवापाया निजभर्तृधनार्थिनीम् ।। ८५ ॥
हिरण्यगुप्तोऽपि गृहे तामयाचत संगमम् ।
तृतीयेऽह्नि निशाशेषे स्वाधीना तेऽस्मि का क्षतिः ।
इत्युक्त्वा तं परिजने कथामेतां न्यवेदयत् ॥ ८६ ॥
ततः प्राप्ते तृतीयेऽह्नि तस्या मन्त्रिसुतो गृहम् ।
विनष्टदीपं साकम्पो विवेश विवशो निशि ॥ ८७ ॥
उपकोशा तमवदन्नास्नाते त्वयि मे रतिः ।
इति तस्या गिरा स्नातुं विवेशान्धगृहोदरम् ।। ८८ !
तत्रोद्वर्तनमादाय मसृणं तैलकज्जलम् ।
लिलिपुश्चेटिकास्तस्य चिरं गात्राणि कामिनः ॥ ८९ ॥
अथान्यस्मिन्निशायामे तूर्णं प्राप्ते पुरोहिते ।
मञ्जूषरूप संदर्श्य विवृतं दारुकोष्टकम् ॥ ९० ॥
प्रविश प्रविश क्षिप्रमसौ प्राप्तो गृहाधिपः ।
इत्युक्त्वा कोष्टके ज्येष्ठमुपकोशा न्यवेशयत् ॥ ९१ ॥
दत्वा लोहार्गलां तस्मिन्पुरोहितमुवाच सा ।
नास्नातोऽर्हसि मां स्प्रष्टुमिति सोऽपि तथा कृतः ॥ ९२ ॥
तस्मिंस्तैलमषीलिप्ते तृतीयोऽपि समाययौ ।
सत्यं स्मरविदग्धेन मुरघः को न विडम्बितः ॥ ९३ ॥
पुरोहितेऽपि विन्यस्ते तत्रैव भययितुले ।
सोऽपि क्रमेण तेनैव पिशाचसदृशः कृतः ॥ ९४ ॥
हिरण्यगुप्ते संप्राप्ते रात्रिशेषे वणिग्वरे ।
दारुभाण्डे तथैवासौ निहितो दण्डवासिकः ॥ ९५ ॥
अथोपकोशा वणिजमुपविष्टं वरासने ।
कोष्टकाभिमुखीं प्राह निक्षेपो दीयतामिति ॥ ९६ ॥


विज्ञान दकितेक्षणै कर तिवाधीनास्मि का क्षत्तिः ख. ३. मिस्त्रिया

४. याप्यसिदिशाशेषभुते क पा वितवम ख.