पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमञ्चुके-रत्नदत्ताख्यायिका ।]
१५७
बृहत्कथामञ्जरी ।

सूर्यप्रभश्चक्रवर्तिश्रियं भेजे सुहृद्धतः ।। २४१ ।।
कान्ताभिः सह सर्वाभिः संभोगसुरतोत्सवे ।
कृतकृत्यो रतिं प्राप साक्षादिव स मन्मथः ॥ २४२॥
इति सूर्यप्रभेणाप्ता विद्याभिश्चक्रवर्तिता।
त्वत्पुत्रोऽप्यधिकं देव लप्स्यते नरवाहनः ॥ २४३ ।।
अवाप्तविद्यमचिराद्विजिताराशिमण्डलम् ।
एवं पुनः समेष्यामीत्युक्त्वा सूर्यप्रभो ययौ ।। २४४ !!
सूर्यप्रभस्येति निशम्य वृत्तं वत्सेश्वरो हर्षसुधाभिषिक्तः ।
देवीमुखाम्भोजनिविष्टदृष्टिः पस्पर्श पुत्रस्य करं करेण ॥ २४१ ।।
इति क्षेमेण्द्रविरचिते बृहत्कथासारे सूर्यप्रभो नाम षष्ठो लम्बकः ।
मदनमञ्चुकनामा सप्तमो लस्वकः ।
प्रथमो गुच्छः।
भ्रूलेखाधनुरानतं विचलितो लीलाकटाक्षः शरो
हासस्तत्सितपुङ्खपक्षरचना मौर्वी च पक्षच्छदिः
ककारः कलपञ्चमाश्रयिवचो यस्येत्थमासूत्र्यते
जैवं तन्त्रमनारत युवतिभिः कामाय तस्मै नमः ॥ १॥
सूर्यप्रभकथां श्रुत्वा वत्सराजः प्रियासखः ।
पुत्रप्रभावं कलयन्बभूवानन्दनिर्भरः ॥ २ ॥
अत्रान्तरे स्मरं ज्ञात्वा नरवाहनरूपिणम् ।
'अवतीर्ण वराच्छंभोर्भुवं रतिरवातरत् ॥ ३॥
दैयितानुब्रता साथ तपसा पार्वतीवरात् ।
कान्ता यत्र यथा जाता तदिदानीमिहोच्यते ॥४॥
अस्ति संतोषजननी निर्विकारसुखस्थितिः ।
वितस्ता मोक्षवीथीव सिद्धसेव्या महानदी ॥ ५ ॥


'भृत् ख. २..'संसारः क..३. यदि ना खा.