पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
काव्यमाला ।

उक्त्वेति विधिवन्मन्त्रं तस्मिन्विप्रवरो ददौ ।
सुतां च सुन्दरी नाम सौन्दर्यशशिचन्द्रिकाम् ॥ २२९ ।
तां कान्तां गुणशर्मा च प्राप्यायतविलोचनाम् ।
जित्वा नृपं महासेनं तदाज्यं समवाप्तवान् ।। २३० ।।
इति गुणशर्माख्यायिका ॥२॥
इति वीतभयाख्येन कथितां सुहृदा कथाम् ।
सूर्यप्रभो निशम्यैव प्रीतो निद्रां समाययौ ॥ २३१ ॥
ततः प्रभाते संनद्धः स्नातः कृतजयोचितः ।
अवाप्य संग्रामभुवं दिव्यं ब्यूहमकल्पयत् ।। २३३ ॥
अथ स्वयं शक्रमुखास्त्रिदशा दैत्यदानवैः ।
अयुध्यन्त सुसंरब्धा श्रुतिशर्मजयैषिणः ।। २३३ ।।
ततो विनिहताः पेतुर्विद्याधरवरा भुवि ।
रत्नांशुभासुराकाराः क्षीणपुण्या इव ग्रहाः ॥ २३४ ॥
स्वयं सूर्यपभस्तत्र ध्यात्वा देवं पिनाकिनम् ।
व्यधात्पाशुपतं धोरं शस्त्रमस्त्रविदां वरः ॥ १३ ॥
तेन बद्धा सहामात्यं श्रुति(त)शर्मणामाहवे ।
हरहुंकारविध्वस्तान्देवान्सूर्यप्रभोऽजयत् ॥ २३६ ।।
ततः शिवाज्ञया सख्यं विधाय श्रुति(त)शर्मणा !
स जयश्रियमासाद्य ननन्द सह दानवैः ॥ २३७ !!
प्रह्लादतनयां तत्र कामचूडामणिं ततः ।
परिणीयाभिषेकाय स प्रायावृषभाचलम् ।। २३८ ।।
साक्षाद्विलोक्य हेरम्बं प्रणतो विघ्ननायकम्
गौरीपतिं च सानन्दो लेभे निर्वृतिमुत्तमाम् ॥ २३९ ।।
सुमेरुप्रमुखैस्तत्र विद्याधरधराधिपः ।
शक्रादिभिः सुरवरैर्भयमुख्यैर्महासुरैः ॥ २४ ॥
मुनिभिः कश्यपमुखैरभिषिक्तो यथाविधि ।