पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
काव्यमाला ।

अनादृत्यैव भूयोऽपि याते तस्मिन्नृपप्रिया ।
लज्जाकोपस्रामक्रान्ता सा निशश्वास भामिनी ।। २०६॥
रहः क्ष्मापं समभ्येत्य सावदत्साश्रुलोचना ।
गुणशर्मा तवात्यन्तं प्रियो देव किमुच्यते ॥ २० ॥
पुरा विषप्रदः सूदो हतो यत्नेन तच्छृणु ।
एककार्यनिविष्टौ तौ ततो भेदस्तयोरभूत् ॥ २०७ ।।
भवत्प्रसादाद्यचललक्ष्मीमदतरङ्गिणा ।
अहं तेनाद्य विजने याचिता सुरतं सती ॥ २०८ ॥
बलाद्विवसनां कृत्वा क्रोशन्तीं काममोहितः।
पाणिना मां स पस्पर्श स्तनयोर्जधने तथा ॥ २० ॥
श्रुत्वेति मोहं प्रययावीर्ष्यासंमूर्छितो नृपः ।
तयैवाश्वासितः संज्ञां प्राप्य कोपादकम्पत ।। २१०।।
स सभामण्डपं गत्वा निर्लज्जो जनसंसदि ।
उवाच गुणशर्माणं देवीवृत्तान्तमाकुलः ।। २११ ॥
परिशुद्भिवचस्तस्य क्रोधान्धो वसुधाधिपः ।
अशृण्वन्नेव तं शस्त्रैः सानुगो हन्तुमुद्ययौ ।। २१२ ॥
कृतश्रमो बञ्चयित्वा स राजानं भटांश्च तान् ।
ययावलक्षितो वेगाद्गुणशर्मा विधेर्वशात् ॥ २१३ ॥
दक्षिणापथमासाद्य ब्राह्मणस्य निवेशनम् ।
अग्निदेत्ताभिधानस्य स विषेश सुदुःखितः ।। २१४ ॥
वेदवेदान्तसारज्ञः पृष्टस्तेन द्विजन्मना ।
गुणशर्मा निजां जाति जातस्नेहं जगाद तम् ॥ २१५ ॥
अहं सुलोचनाख्यायां कुले यज्वद्विजन्मनः ।
आदित्यशर्मणो जातो गुणशर्माभिधः सखे ॥ २.१६ ॥


ग्रंबलालक्ष्मीबल' ख.. शोभ