पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. सूर्यप्रभ-गुणशर्माख्यायिका ।]
१५३
बृहत्कथामञ्जरी ।

विषदानोद्यतं सूदं गुणशर्मा व्यलोकयत् ।
सूदं नष्टमुखच्छावं सकम्पं गद्गदखरम् ।। १९३ ॥
स ताडयित्वा पप्रच्छ भूपतिद्रोहकारणम् ।
सोऽब्रवीन्मालवेन्द्रेणराज्ञा विक्रमशक्तिना ॥ १९४ ॥
विषदाने नियुक्तोऽहं वैरिणास्थ महीपतेः ।
इत्युक्तवति तत्कोपात्सूदे तस्मिनिपातिते ।। १९९ ।।
कालेन मालवाधीशः स्वयं योद्धुं समाययौ ।
दुर्जयं तं महानीकं ज्ञात्वा शूरं नराधिपम् ॥ १९६ ॥
मन्त्रेणान्तर्हितः प्रायाद्गुणशर्मा तदन्तिकम् ।
स कूटसिद्धो भूत्वा तं दिवः प्राह महीपतिम् ॥ १९७ ॥
मा कृथा विग्रहं राजन्महासेनेन भूभुजा।
प्रणमैनं महीपालं श्रेयसीं प्राप्स्यसि श्रियम् ॥ १९८ ॥
उक्त्वेत्यलक्षिते याते गुणशर्मणि विद्यया ।
मालवेन्द्रो महासेनं प्रसाद्य प्रणनाम तम् ।। १९९ ।।
कृतसख्ये प्रयातेऽथ स्वपुरीं मालवेश्वरे ।
गुणशर्मकृतां मायां प्रशशंसुश्च पार्थिवाः ॥ २०० ॥
ततः कदाचिद्गङ्गायां जलक्रीडारतं नृपम् ।
महासेनं महाग्राहो जग्राह गजसंनिभः ॥ २०१॥
गुणशर्मा समभ्येत्य त्वमिनं प्रोज्जहार तम् ।
आहं विधाय दलशः शस्त्रेण विपुलाशयः ।। २०२१
पुनर्दष्टं भुजङ्गेन मन्त्रज्ञस्तमजीबयत् ।
इत्यनेकोपकारोऽसौ स्नेहार्द्र नृपतिं व्यधात् ।। २०३ ॥
कदाचिदथ निःशङ्कं प्राप्तमन्तःपुरं द्विजम् ।
तं सा भूपालमाहिषी भजस्वेत्यभ्यधात्पुनः ॥ २०४।।