पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
काव्यमाला ।

यः प्राप्येन्दुमुखीं स्वयं न सहसा कण्ठे समालम्बते
स प्रायः किमु पापदग्धविधिना सृष्टः शिलापुत्रकः ॥ ६० ॥
इत्याकर्ण्य प्रहृष्टः स पुत्रकः प्राह विस्मितः ।
गामिवोद्दिश्य साधूक्तमहो केनापि धीमता ॥ ६१ ॥
इत्युक्त्वा पाटलां कण्ठे जग्राह मदनाकुलः ।
नवोत्कस्पिकुचन्यस्तहस्तस्वस्तिककञ्चुकाम् ॥ ६२ ॥
सा तेन त्रासविचलल्लोचनव्याकुलोत्पला ।
क्रान्तानताननाम्भोजा गजेनेव सरोजिनी ॥ ६३ ॥
श्यामेव विस्फुरच्चित्रहारमौक्तिकतारका ।
स्मरस्मयभयभ्रान्तिभाजनं सहसाभवत् ॥ ६४ ॥
एवं प्रतिनिशं श्यामा संगमानङ्गभङ्गिना।
तेन कान्तवसन्तेन स्वैरं सा पुष्पिताभवत् ॥ ६५ ॥
कालेन स परिज्ञातो राज्ञा प्रच्छन्नकामुकः ।
आदाय पाटलां व्योम्ना प्रययौ जाह्नवीतटम् ॥ ६६ ॥
सुखोषितस्तत्र तया सेव्यमानोऽथ पुत्रकः ।
चकार नगरं यष्टिलेखाभिहेममन्दिरम् ॥ ६७ ॥
फटला वचसा राज्ञा पुत्रकेणाथ निर्मितम् ।
पुरं पाटलिपुत्राख्यमिदं विद्यानिवेशनम् ॥ ६८ ॥
पाटलिपुत्रकथा ॥ १ ॥
इति श्रुत्वा गुरोर्विद्याः प्राप्य सर्वाः सुखोषितः ।
अवापमुपकोशाख्यामुपवर्षगुरोः सुताम् ॥ ६९ ॥
उपकोशामवाप्याहं नीलनीरजलोचनाम् ।
स्मरसाम्राज्यमभजं भाजनं सुखसंपदः ॥ ७० ॥
व्याडीन्द्रदत्तसंहिते सर्वज्ञे मयि विश्रुते ।
पाणिनिर्नाम वर्षस्य शिष्यः पूर्वं जडाशयः ।। ७१ ।।


१. समयाय ख. ३. तदा तस्य वचनं प्राह विस्सितः ख. ३. छिन्न ख.

क्रिण विनिर्मित स. ५. 'ममवम् ख.