पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. कथापीठे-पाटलिपुत्रकथा ।।
११
बृहत्कथामञ्जरी

भ्रात्रोरसुरयोः पैत्रे धने वियदमानयोः । धावतोरधिको वेगो यः स स्वामी धने पितुः ॥ ४९ ॥ इति तद्वचसा वेगगमने द्रुतयोस्तयोः । उपानहौ च यष्टिं च प्राप्य पात्रं च तत्र सः ॥ ५० ॥ यष्टिं समस्तनिर्माणे नभोगत्यामुपानाहौ । पात्रं निखिलभोगेषु स प्राप्येप्सितसिद्धिदम् ॥ ५१ ॥ साकञ्जिकपुरीं गत्वा गूढं वृद्धा गृहे वसन् । सेव्यमानस्तया प्राज्ञः सततं काञ्चनप्रदः ॥ ५२ ॥ महेन्द्रवर्मणो राज्ञस्तनयां रूपशालिनीम् । विश्रुतां तत्र शुश्राव पाटलां पाटलाधराम् ॥ ५३ ॥ उपानहौ समादाय रात्रावुत्पत्य खेचरः । आकाशमन्दिरगतां तत्प्रविश्य ददर्श सः ॥ ५४ ।। शयानां शयने स्वच्छे निजकान्त्युत्तरच्छदे । नभोगतिः स तां सुप्तामैन्दवीमिव देवताम् ।। ५५ लावण्यसलिलस्मेरस्मरकल्लोलिनीमिव । स्वचरैरिव विन्यस्तां मानसाकर्षणौषधिम् ॥ ५६ ॥ यौवनोद्यानसंरूढां विलासलतिकामिव । तां विलोक्य स्फुरद्रत्नकपिशालोकमन्दिरम् ।। ५७ ॥ सहसा बोधयाम्येनां सुखसुप्तामहं कथम् । चित्रन्यस्त इव क्षिप्रमिति ध्यानपरोऽभवत् ॥ ५८ ॥ चिन्तादोलायिते तस्मिन्बहिःकश्चित्प्रसङ्गतः । यामिको यामिकं प्राह स्वैरं निजकथान्तरे ।। ५९ ॥ निद्रामुद्रितलोललोचनरुचिभ्राजिष्णुकर्णोत्पला- मर्धावृत्तनिमेषहुंकृतिपदां जम्भाभिरामां मुहुः । 'द्रुतपादयोः' स्व. २. 'आयज्ञिक' स्व. 'आकर्षिकाख्याम्' इति कथासरित्सागरे, ३. 'प्र ' स्व. ४. कथासरित्सागरे तु 'पाटलीम्' इति पाठः. ५. 'आकाशे मन्दिरगताम्' क.

६. 'तां प्रविश्य' क ७. 'कपिलालोकमन्दिरे' क. ८.'चित्रन्यस्तमिव ' स्व.


'तपादयोः' स्व. २. 'आयज्ञिक ख. 'आकर्षिकाख्याम्' इति कथासरित्सागरे,

'प्रा न. ४. कथासरित्सागरे तु पाटलीम्' इलि पाठः. ५. 'आकाशे मन्दिरगताम्' ६. तां प्रविश्य का ७. कपिलालोकमन्दिरे क. 'चित्रन्यस्तमिव व