पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

सा तेन स्फारमहसा द्यौरियामृतरोचिषा ।
बभौ देवी कुमारेण कुमारेणेव पार्वती ॥ १३६ ।।
ततो महोत्सवोत्साहप्रमोदाकुलतां गतम् ।
बभूव नगरं हर्षादालिङ्गितमिव श्रिया ॥ १३७ ॥
अथोच्चचार गगनात्पुष्पवर्षपुरःसरा ।
दिव्यवाणी नृपस्याग्रे पीयूषादिव निर्गता ॥ १३८ ॥
अद्य विद्याधरनृपश्चक्रवर्ती तवात्मजः ।
नरवाहनदत्ताख्यो जातः कामो महीपतौ ॥ १३९ ॥
इति शङ्खस्वराविद्धं दिव्यं दुन्दुभिसंभृतम् ।
श्रुत्वाप्सरोगीतियुतं ननन्द वसुधाधिपः ॥ १४० ॥
मरुभूतिप्रभृतिभिर्मन्त्रिसेनाधिपात्मजैः ।
सेव्यमानः स ववृधे सह लोकमनोरथैः ॥ १४१ ॥
जातेनोदयभूभृदथ सहसा तेन प्रवृद्धश्रिया
हर्षोल्लासकलाकलापनिधिना नेत्रामृतस्यन्दिना ।
आनन्दस्फुटचन्द्रिकामृतसुधाकान्तेन बालेन्दुना
सर्वाशापरिवेशभूषणतुलामासाद्य वन्द्योऽभवत् ॥ १४२ ॥
इति क्षेमेन्द्रविरचिते बृहत्कथासारे नरवाहनजन्मनामा चतुर्थो लम्बकः समाप्तः ।
चतुर्दारिकानामा पञ्चमो लम्बकः ।
प्रथमो गुच्छः
त्वद्भङ्गमुदञ्चदिन्दुशकलं वेल्लत्कपालाकुलं
पायाद्वः श्वसदङ्गदोरुभुजगं चण्डीपतेस्ताण्डवम् ।
यस्योद्भ्रान्तभुजप्रबन्धवलनावातोत्सलत्सागर-
स्फाराम्भः पटलैः पुरं पटमिवासक्तं समातन्वत ॥ १ ॥
अथ हृष्टं महीपालं प्राह यौगन्धरायणः ।
सुरोचितसुतावाप्त्या देव दिष्ट्या विवर्धसे ॥ २ ॥