पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. चतुर्दारिके-शक्तिदेवसमागमकथा ।]
११५
बृहत्कथामञ्जरी ।

रक्षायै तव पुत्रस्य स्वयमेत्य पिनाकिना ।
नियुक्तः स्तम्भको नाम दुरितः स्तम्भको गणः ॥ ३ ॥
अवतीर्णं प्रभुं ज्ञात्वा सर्वे विद्याधराधिपाः ।
वर्तन्ते भवतः सूनोरभिषेकप्रतीक्षिणः ॥ ४ ॥
इति नारदनिर्दिष्टं निवेद्यामात्यपुंगवः ।
विदधे राजपुत्रस्य विद्याविनयसंपदम् ॥ ५ ॥
प्रकृष्टानन्तसामन्तमौलिभास्वत्प्रभां सभाम् ।
अध्यासीनेऽथ नृपतौ हिमवर्षमभून्नभः ॥ ६ ॥
ततोऽवतीर्य नभसा सभां विद्याधरोऽविशत् ।
शक्रचापशतैः कुर्वन्भूषणांशुशतैर्दिशः ॥ ७ ॥
गण्डताण्डवितानीलरत्नकुन्तलकान्तयः ।
मुखेन्दौ चक्रिरे तस्य लक्ष्म लेखा शशभ्रमम् ॥ ८ ॥
श्यामलाकाशखड्गांशुभूषितः स बभौ मुहुः ।
अदभ्रमिव बिभ्राणो नीलोत्पलदलत्रजम् ॥ ९॥
तमागतमभिप्रेक्ष्य विस्मयान्निभृतो नृपः ।
लोलहारः समुत्तस्थौ संरम्भरणिताङ्गदः ॥ १० ॥
प्राप्तपूजासने तस्मिन्राज्ञा सह सभासदः ।
तन्मुखन्यस्तनयना बभूवुर्लिखिता इव ॥ ११ ॥
पृष्टः कोऽसीति स प्राह शुभ्रदन्तांशुसंचयः ।
कैलासवासिप्रीत्येव रचयन्स्फाटिकीं सभाम् ॥ १२ ॥
नेत्रोत्सवां श्रुतिसुखं कल्याणानां च संपदम् ।
किरन्ति दर्शनालापसंगतानि भवादृशाम् ॥ १३ ॥
शक्तिदेवाभिधानोऽहं देव विद्याधरेश्वरः ।
कैलासवासस्तत्पूर्वं स्वामिनं द्रष्टुमागतः ॥ १४ ॥


व ख. २. 'हेमपिङ्गम ख... पाकिताः'ख. ४, भृगभ्र' ख. मिषो', ६. 'सुवा' ख.. वेग क.