पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४, नरवाहनजन्मनि-सिंहपराक्रमाख्यायिका । ]
११३
बृहत्कथामञ्जरी ।

भार्या कलहकार्याख्या तस्यासीत्परुषस्वरा ।
धनप्रदोऽपि स तया शोषितः कलहाग्निना ॥ १२४ ।।
स विन्ध्यवासिनीं गत्वा तपसा प्राप तद्वरात् ।
निधानं हेमसंपूर्णं रत्नपात्रं च निर्मलम् ॥ १२५ ॥
चक्षुस्तस्मिन्समाधाय पात्रे यो यः प्रतीक्षते ।
लोकेऽस्मिंस्तस्य तद्द्वारा पूर्वजातिर्विलोक्यते ॥ १२६ ॥
इति देवीगिरा ज्ञात्वा पात्रे कृत्वा स लोचने ।
प्राग्जातौ सिंहमात्मानं जायामृक्षीं च पृष्टवान् ॥ १२७ ॥
त्यक्त्वा जातिविरुद्धं च तत्कलत्रं रुषः पदम् ।
समानजातिसुभगां तेनेवालोक्य कन्यकाम् ।
..............सिंहमात्मा न जायकाम् ॥ १२८ ॥
रत्नगुञ्जस्य वणिजो भेजे सिंहवतीं सुताम् ।
निरस्य योषितं हीनां प्राणिजातविरोधनीम् ॥ १२९ ॥
इत्येवं पूर्वसाजात्यविरोधात्क्रमतोऽपि वा।
नृणां भार्यासुहृत्पुत्रैर्जायते कलहानलः ॥ १३० ॥
इति सिंहपराक्रमाख्यायिका ॥४॥
वसन्तकस्येति गिरं श्रुत्वाभूद्विस्मितो नृपः ।
साक्षिवादजितां तां च निराश्चक्रुर्वधूं पुरात् ॥ १३१ ॥
अत्रान्तरे सुतं प्राप तुल्यं यौगन्धरायणः ॥
मरुभूतिकलामानं निधानमिव संपदाम् ॥ १३२ ॥
पुत्रं हरिशिखाख्यं च रुम=ण्वान्समवाप्तवान् ।
नित्योद्यतः प्रतीहारो लेभे पुत्रं च गोमुखम् ॥ १३३ ॥
एते सहाया वत्सेशसूनोर्विद्याधरप्रभोः ।
भविष्यन्ति गिरं जातेष्वेषु दैवी तमम्बरात् ॥ १३४ ॥
अथ पुण्यकृतां योग्ये मुहूर्ते शुभदैवते ।
असूत तनयं देवी मुरारिमिव देवकी ॥ १३५ ॥


ख. २. त्रुटिचि तु पुस्तकद्वयेऽपि वर्तते. ३. गर्भस्य खः