पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
काव्यमाला ।

देवी मामवदत्स्वप्ने भस्मस्मेरो जटाधरः।
गजेन्द्रकृत्तिवसनः श्यामकण्ठस्त्रिशूलधृक् ॥ १११ ॥
सर्वविद्याधराधीशं स्मरं जन्मान्तरागतम् ।
जनयिष्यसि लोलाक्षि पुत्रं वंशविभूषणम् ॥ ११२ ।।
प्रातर्वत्सेश्वरपुरो दम्पत्योर्भविता मिथः ।
विवादस्तत्र पुरुषो निष्पापो न तु तद्वधूः ॥ ११३ ॥
उक्त्वेत्यदर्शनं याते तस्मिन्हर्षवशादहम् ।
प्रबुद्धा मागधवधूवृन्दमङ्गलगीतिभिः ॥ ११४ ॥
इत्युक्तवत्यां भूपालवल्लभायां नरेश्वरम् ।
प्रविश्य प्रणतोऽभ्येत्य प्रतीहारो व्यजिज्ञपत् ।। ११५ ॥
देव द्वारि स्थिता कापि योषिद्वन्धूजनावृता ।
भर्त्रा विवादं भर्तव्यं यात्रायां समुपागता ॥ ११६ ॥
सपुत्रया तथा कृष्टस्तद्वन्धूजनताडितः ।
स वक्ति पुरुषः सर्वं दत्तमस्मै मया धनम् ।। ११७ ॥
नं किंचिदिति योषिच्च प्रमाणमधुना नृपः
इति प्रतीहारवचः श्रुत्वा मन्त्रीत्यवोचत ॥ ११८ ॥
साक्ष्यं साक्षात्त्रिनेत्रेण देव्याः स्वप्ने प्रभाषितम् ।
निष्पापः पुरुषस्तावत्तथाप्यन्विष्यतां पुनः ॥ ११९ ॥
तस्यै दत्तं न दत्तं वा ज्ञातव्यं चेति साक्षिभिः
लोकप्रत्ययसारा हि महतां प्रभविष्णुता ॥ १२० ॥
उक्त्वेत्यमात्ये विरते तयोर्विवदमानयोः ।
स्वयं श्रुत्वा नृपश्चक्रे साक्षिशेषं विनिर्णयम् ।। १२१ ॥
ततो वसन्तकः प्राह तां कथावसरे हसन् ।
अन्वासक्तेव योषैषा सती द्वेष्टि निजं पतिम् ॥ १२२ ॥
वाराणस्यां पुरः वीरो बभूव नृपसेवकः ।
रूपाभिजनसंपन्नो नाम्ना सिंहपराक्रमः ॥ १२३ ॥