पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नरबाहनजन्मनि-सिंहपराक्रमाख्यायिका ।]
१११
बृहत्कथामञ्जरी ।

मित्रावसुं विसृज्याथ व्यपदेशेन सत्वरः ।
शङ्खचूडं च सत्त्वस्थे वैनतेयशिलां ययौ ॥ ९९ ॥
तत्र नागास्थिसंघाते निर्यद्भूरिवसाकुले ।
गरुडागमनाकाङ्क्षी तस्थौ विगतसंभ्रमः॥ १०० ।।
ततः प्रलयसंभ्रान्तकल्पान्तपवनाकुलम् ।
[अकम्पत जगत्तुङ्गतरङ्गोत्तुङ्गसागरम् ॥ १०१ ॥]
अथादृश्यत मार्तण्डमण्डलोद्दण्डतेजसा ।
गरुत्मान्काञ्चनमयी कुर्वन्निव दिशो दश ।। १०२ ॥
स चण्डचञ्चुचरणाघातविश्लिष्टविग्रहम् ।
जीमूतवाहनं चक्रे सहसाप...श्वरः ॥ १०३ ॥
अभ्रष्टवदनच्छायं तमालोक्य निराकुलम् ।
धुर्यः सत्त्ववतां कोऽयमिति तार्क्ष्यो व्यचिन्तयत् ॥ १०४ ॥
पृष्टः कोऽसीति वृत्तान्तं स्वयं तस्मै न्यवेदयत् ।
तुष्टश्च वरदोऽस्मीति तमाह भुजगान्तकः ॥ १०५ ॥
हतानामस्थिभूतानां जीवितं फणिनां ततः ।
नागाशननिवृत्तिं च सोऽयाचत वरं वरम् ॥ १०६ ॥
पतगेन्द्रे तथेत्युक्त्वा गते सिक्त्वा सुधारसैः ।
पित्रा मलयवत्या च संगतो बान्धवैरपि ॥ १०७ ॥
विद्याधरैः समभ्येत्य प्रार्थितस्तुहिनाचले ।
चक्रवर्तिपदं भेजे निजं जीमूतवाहनः ॥ १०८ ॥
श्रुत्वेति राजमहिषी विद्याधरकथाद्भुतम् ।
बभूव हर्षसंपूर्णा ध्यायन्ती तस्य चेष्टितम् ॥ १०९ ॥
इति जीमूतवाहनाख्यायिका ॥ ३ ॥
पुनः कदाचित्प्रत्यूषे देवी संसदि भूपतिः ।
यौगन्धरायणपुरः प्रोवाच श्रवणामृतम् ॥ ११० ॥


१. एतत्कोष्ठान्तर्गतपाठः क-पुस्तके त्रुटितः २. स्वस्थ ख. ३. 'आनन्दसुन्दर- मुखी बभौ प्रातरिवाब्जिनी' र,