पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
काव्यमाला ।

स्मरसंभोगसुभगस्तद्विलासरसाकुलः ।
अमन्दानन्दसंदोहं भेजे जीमूतवाहनः ॥ ८७ ॥
ततः कदाचिद्विहरन्स मित्रावसुना सह ।
ददर्श दुःखनिभृतध्याने फणिकुमारकम् ॥ ८८ ॥
स तेन शङ्खचूडाख्यः पृष्टः प्राह भयाकुलः ।
कद्रूश्च विनता चेति कश्यपस्य प्रिये पुरा ॥ ८९ ॥
बालघौ भास्कराश्वानां सितासितविवादतः ।
पणं दास्याय चक्रान्ते प्रतिज्ञाकृतनिश्चये ॥ ९० ॥
कृष्णबालान्विधायाश्वान्कद्रूपुत्रैर्भुजंगमैः ।
दास्यं निनाय विनतां व्याजाद्गरुडमातरम् ॥ ९१ ॥
तस्या निशम्य दास्यं तत्पीयूषाहरणावधिः ।
वैनतेयो वहन्नागान्मातुर्दास्यमवारयत् ॥ ९२ ॥
जवात्पीयूषमाहृत्य जित्वा शक्रं खगेश्वरः ।
प्रदाय कार्द्रवेयेभ्यो दासभावादमुच्यत ॥ ९३ ॥
धृतं पीयूषकलशं कुशेष्वभ्येत्य वासवः ।
जहार तत्क्षणार्द्रांश्च लिलिहुः पन्नगाः कुशान् ॥ ९४ ॥
ततो द्विजिह्वतां प्राप्ताः स्वरदर्भावलेहनैः ।
विष्णोर्वरात्सुपर्णस्य भक्ष्यतां पन्नगा ययुः ॥ ९५ ॥
ततः कुलक्षयभयात्त्वसौ वारेण कल्पितः ॥
नागो वासुकिना नित्यं स वारोऽद्य मम क्रमात् ॥ ९६ ॥
इत्याकर्ण्यैव करुणापूर्णो जीमूतवाहनः ।
अहं तार्क्ष्यं भवद्वेषो गच्छामीत्यभ्यभाषत ॥ ९७ ॥
निर्वैरिता विनयता प्रियवादिता च
प्राणैरपि प्रणयिनां प्रियपूरणं च ।
इत्युग्रमोहमदमानविषोल्बणस्य
संसारघोरजलधेरमृतच्छटेव ॥ ९८ ॥