पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
वैराग्यशतकम् ।


श्रीमदप्पयदीक्षितविरचितं

वैराग्यशतकम्।

आस्ते कश्चन भिक्षुः संगृह्णन्नव्ययानि दश ।
न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत् ॥ १ ॥

धीसचिवं धैर्यबलं संकल्पविरोधि शान्तिधनम् ।
विश्वत्रयविषयमिदं वैराग्यं नाम साम्राज्यम् ॥ २ ॥

राज्ञो बिभेति लोको राजानः पुनरितोऽपि वैरिभ्यः ।
आ ब्रह्मणः कृतान्तादकुतोभयमस्पृहाराज्यम् ॥ ३ ॥


१. अप्पथदीक्षितसहोदरस्याप्ययदीक्षितस्यैव वा पौत्रेण नारायणदीक्षितपुत्रेण नीलकण्ठदीक्षितेन नीलकण्ठचम्पूप्रारम्भे 'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु (४७३८) । कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥ इति स्वग्रन्थनिर्माणसमयो लिखितः । अर्थात् १६३७ सिते ख्रिस्तसंवत्सरे नीलकण्ठचम्पू रचिता । तस्मात्ख्रिस्तसंवत्सरीयषोडशशतकसमाप्त्यासन्नसमये श्रीमदप्पयदीक्षित आसीदिति ज्ञायते । नीलकण्ठचम्पूप्रारम्भे 'लीलालीढपुराणसूक्तिशकलावष्टम्भसंभावनापर्यस्तश्रुतिसेतुभिः कतिपयैर्नीते कलौ सान्द्रताम् । श्रीकण्ठोऽवततार यस्य वपुषा कल्क्यात्मना वाच्युतः श्रीमानप्पयदीक्षितः स जयति श्रीकण्ठविद्यागुरुः ॥” इत्यप्पयदीक्षितप्रशंसापरं पद्यं वर्तते । अप्पयदीक्षितकृता बहवो ग्रन्थाः सन्तिः, तन्मध्यादद्यावधि ज्ञाता ग्र्न्थास्त्वेते ।-(१) आरमार्पणस्तुतिः (२) उपक्रमपराक्रमः, (३) कुवलयानन्दः, (४) चतुर्मतसारसंग्रहः (नयमञ्जरी), (५) चन्द्रकुलास्तुतिः, (६) चित्रमीमांसा, (७) दशकुमारचरितसंक्षेपः (८) नामसंग्रहमाला, (९) ब्रह्मतर्कस्तवः, (१०) भक्तिशतकम् (११) भारततात्पर्यसंग्रहः, (१२) मध्वमतविध्वंसः (१३) रत्नत्रयपरीक्षा, (४) रसिकरञ्जनी (कुवलयानन्दटीका), (१५) रामायणसारस्तवः, (१६) वरदराजशतकम् , (१५) वादनक्षत्रमालिका, (१८) विधिरसायनसुखोपजीविनी, (१९) वीरशैवम् , (२०) वृत्तिवार्तिकम्, (२१) वैराग्यशतकम् , (२२) शब्दप्रकाशः, (२३) शारीरकन्यायरक्षामणिः, (२४) शिवकर्णामृतं सटीकम् , (२५) शिवतत्त्वविवेकः, (२६) शिवादित्यमणिदीपिका, (२७) शिवाद्वैतनिर्णयः, (२८) शिवार्चनचन्द्रिका, (२९) सिद्धान्तलेशसंग्रहः (३०) हरिवंशसारचरितम्, आचारनवनीतकर्ता अप्पयः, गौरीमायूरमाहात्म्यकर्ता अप्पादीक्षितः, शब्दरत्नावलीकर्ता अप्पासूरिः, एते त्रयोऽप्यप्पयदीक्षिताद्भिन्नाः. २. 'ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । द्रष्टृत्वमात्मसंबन्धो ह्यधिष्ठातृत्वमेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे ॥' अत एव 'दशाव्ययः' इति शिवस्य नामापि । कङ्कटीकजटाटीररेरिहाणदशाव्ययाः' इति शिवपर्यायेषु शब्दार्णवः ॥