पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
काव्यमाला।

मिक्षाप्रदा जनन्यः पितरो गुरवः कुमारकाः शिष्याः ।
एकान्तरमणहेतुः शान्तिर्दयिता विरक्तस्य ॥ ४ ॥

ये न किमपि चेष्टन्ते कार्यप्रतिकार्ययोर्विरहात् ।
सन्तस्त एव मुक्ताः संदेहे गौतमः साक्षी ॥ ५ ॥

पततु नभः स्फुटतु मही चलन्तु गिरयो मिलन्तु वारिधयः ।
अधरोत्तरमस्तु जगत्का हानिर्वीतरागस्य ॥ ६ ॥

के चोराः के पिशुना के रिपवः केऽपि दायादाः ।
जगदखिलं तस्य वशे यस्य वशे स्यादिदं चेतः ॥ ७ ॥

विषया उपतिष्ठन्तां विषयैर्वा समवयन्तु करणानि ।
आन्तरमेकं करणं शान्तं यदि का ततश्चिन्ता ॥ ८ ॥

किं विषयान्परिहर्तुं वस्तव्यं मेरुकंदरेष्वबुधैः ।
नाह्यद्भिरनासेक्तुं धातुषु रोहन्ति पद्मानि ॥ ९ ॥

अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे ।
परिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥ १० ॥

स्वेनोपभुक्तमर्थं सूकरजातिस्मरो मनुष्य इव ।
दूरे जुगुप्समानो धीरो वैराग्यमाद्रियते ॥ ११ ॥

शैशवमिव कौमारे तत्तरुणिम्नीव स इव वृद्धत्वे ।
न स्वदते धीराणां कामस्य विचेष्टितं शान्तौ ॥ १२ ॥

शतशः परीक्ष्य विषयान्सद्यो जहति क्वचित्क्वचिद्धत्याः ।
काका इव वान्ताशनमन्ये तानेव सेवन्ते ॥ १३ ॥

चरमौ मातापितरौ चरमा गृहिणी सुताश्चरमाः ।
कर्तव्येऽपि प्रेमणि कथमिह धीरा विरज्यन्ते ॥ १४ ॥

तृणवद्भ्र्मन्ति चपलाः श्रीनामनि चण्डमारुते चलति ।
धरणिधरा इव सन्तस्तत्र न किंचित्प्रकम्पन्ते ॥ १५ ॥


१. दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोतरापायापवर्य:' (१।१।२) इति- शतमसूत्रम् । २. मनः