पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
काव्यमाला ।

मृगतां हरयन्मध्ये वृक्षतां च पटीरयन् ।
नक्षत्रतां महीपानां त्वमिन्दवसि भूपते ॥ ४९ ॥

इह शुद्धपरम्परिता मालारूपोपमा । आचारक्वियन्ताच्छतरि रूपाणि । तिxx चैकम् [इन्दबसि] ॥

मध्ये सुधासमुद्रम्य सितामयगृहोदरे।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥ ५० ॥

अत्र त्रयाणां सुधासमुद्रादीनां विशेषणविशेष्यभावेन मधुरिमणि पराकाष्टामधिरुढे- त्वदीयोक्तिपदसंबन्धो युत्तो न तु विशकलित इत्यतिशायकासद्विशेषणनिबन्धनः प्रौढोक्तिः॥

अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा-
न्यधरितक्तो निर्मोदप्रसादमहाम्बुधेः ।
उदभवदयं देव त्वत्तः कथं परमोल्बणः
प्रलयदहनज्वालाजालाकुलो महसां गणः ।। ५१ ॥

अत्र कारणगुणविरुद्धस्वगुणस्य कार्यस्योत्पतेषिमालंकारः । अमृतलहर्यादीनां त्रया- णामधरीकरणात्मना व्यतिरेकेण संजीवकत्वपरमशीतलत्वविशुद्धत्वसौन्दर्याणामतिशयो गम्यते । एवमेषु पद्येषु संभवन्तोऽप्यन्येऽलंकाराः स्फुटत्वान्न विवेचिताः । सहृदयानां प्रीत्यावश्यकं किंचिथ्याख्यातमन्यत्तु तैरेवोल्लासनीयमित्यलं पल्लवितेन ॥

तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयाललितः
श्रीमत्पेरमभट्टसूनुरनिशं विद्याल्ललाटंतपः ।
संतुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनं
श्रीमत्पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम् ॥ ५२ ॥

[१]दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डाशुग- ध्वस्तोद्दण्डविपक्षमण्डलमिह त्वो वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव- भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ ५३ ॥

अत्र सरणालंकारः।भाव इति तु न भ्रामिव्यतम् । सादृश्यमूलकत्वातन्मूलकत्वाभ्यां
भावत्वालंकारत्वयोरिह व्यवस्थितेः शब्दवेधत्वाच्च ।
इति पण्डितराजश्रीजगनाथविरचितं प्राणाभरणं तत्कृतयैव टिप्पण्या समेत समाप्तम् ।



१. अन्यतमाप्त्यनन्तरमयं लोको ऽनुचित इवाभाति । भामिनीविलासादाकुष्मात्र- केनचित्नक्षिप्तः स्यात्।