पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
प्राणाभरणम् ।


म्यस्या प्रतिष्ठानान्नेयमुपमा । अन्यथा व्यतिरेकस्यापि तत्त्वापतेः । [१]'ढुंढोल्लन्तो मरिससि कंटककलिआइं केअइवणाइं । मालइकुसुमसरिच्छं भमर भमंतो ण पावेसि’ ॥ इत्यत्र तु न प्राप्स्यसीत्युक्त्वा क्वचित्त्वदगोचरे स्थले भविष्यतीति प्रतीतेः सादृश्यप्रतिष्ठानाल्लुप्तो- पमास्तु । तस्मादसमालंकार एवायमिति तु नव्याः॥

भुजभ्रमितपट्टिशोद्दलितद्दप्तदन्तावलं
भवन्तमरिमण्डलक्रथन पश्यतः संगरे ।
करालकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो
न कस्य हृदयं झटित्यधिरुरोह [२]जम्माहितः ।। २०॥

अत्र स्मरणालंकारः परंतु लक्ष्यः॥

यमः प्रतिमहीमृतां हुतबहोऽसि तन्नीव्र[३]तां
सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम् ।
गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं
त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ २१ ॥

अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादीनामे- तस्मिन्नागते यमत्वादिना भ्रान्तेरपि संभवाभ्रन्तिमता तैरेवानेकैर्ग्रहीतृभिरनेकैर्धमैरुल्ले- खनादुल्लेखविशेषेण च सह संकीर्णोऽपि संबन्धिषष्ट्यन्तभेदप्रयुक्तवर्ण्यानेकविधत्वक उल्लेखः ॥

द्विनेत्र इव वासवो मितकरो विवखानिव
द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव ।
नराकृतिरिवाम्बुधिगुरुरिव क्षमामागतो
नुतो निखिलभूसुरैर्जयति कामरूपेश्वरः ॥ २२ ॥

अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विष- यिषु पासवादिष्वारोपेण साधारणीकरणात्तन्निमितकोत्प्रेक्षा । सा चेह मालारूपा । न चात्रोपमा शक्यरूपणा । द्विनेत्रत्वाद्युक्क्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमानिष्पादकं तेषां साधारण्यं तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानैस्तस्या निष्पत्तेः । असुन्दरत्वेनो- पमानिध्पादकतया कवेरनभिप्रेतत्वाच । एवं द्वितीयादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एवं स्यात् ॥



१. अन्विष्यन्मरिष्यसि कण्टककलितानि केतकलितानि । मालतीकुसुमसदृशं भ्रमर
भ्रमन प्राप्स्यसि’ । इत्यस्य छाया.। २. इन्द्रः। ३ देशानाम॥ ४. कुबेरः.॥