पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
काव्यमाला।


अत्र राजवर्णनाङ्गत्वेन रवर्योभयोत्त्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तदननुगुणत्वेनाप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकं सूर्यमण्डलभेदनं कार्य गम्यते ॥

आयाता कमलासनस्य भवनाद्रष्टुं त्रिलोकीतलं
गीर्वाणेषु दिनानि कानिचिदहो नीत्वा पुनः कौतुकात् ।
भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे
राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥ १६ ॥

अत्रैकस्साधेयस्यानेकाधारसंबन्धात्पर्यायः । तत्र प्रथमचरणगतमधिकरणमार्थ विश्ले- षावधिकपञ्चम्या विश्लेषस्योपश्लेषापेक्षत्वेनौपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । सत्यधाम- नीति श्लेषमित्तिकामेदाध्यवसानेन मुखस्य सत्यलोकतासिद्धौ सुखवतनसिद्धिः ॥

विद्वद्दैन्यतमस्त्रि[१]मूर्तिरथवा वैरीन्द्रवंशावी-
दावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः ।
किं वानङ्गभुजंगदष्टवनिताजीवा[२]तुरेवं नृणां
केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥ १७ ॥

अत्र कोटीनामारोपान्तरमूलकत्वात्परम्परितसंशयः स चाहार्यः, मूलारोपस्य तथा- त्वात् । कवाविव कविनिवद्धप्रमात्रन्तरेऽप्याहार्यबुद्धेरविरोधात् ॥

नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः
पठन्ति विरुदावलीमहितमन्दिरे बन्दिनः ।
इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते
युगान्तदहनोपमा नयनकोणशोणधुतिः ॥ १८ ॥

अत्र मुख्यार्थस्य राजविषयायाः कविरतेषकारकस्य यदैव तब कोपोदयस्तदेव तव रिपूणां संपदो भससाद्भविष्यन्तीति वस्तुन उपकारिका नयनकोणशोणधुतेर्युगान्तदह- नोपमा ॥

मयि त्वदुपमाविधौ वसुमतीश वाचंयमे
न वर्णयति मामयं कविरिति क्रुधं मा कृथाः ।
चराचरमिदं जगज्जनयतो विधेर्मानसे
पदं न विदधेतरां तव समो द्वितीयो नरः॥ १९ ॥

अत्र स्वत्समोऽन्यो नास्तीति प्रत्ययादुपमानलुप्तोपमा व्यङ्गयेति प्रायः । सर्वयैव सा-


  १. सूर्यः. २. जीवनौषधम् . . .