तत्कोपोघतवज्र्ं जम्भारेरायतं भुजस्तम्भम् ।
अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् ॥ २४ ॥
असृजञ्च तद्वधाय प्रलम्बकालोपमं चतुर्दष्ट्रम् ।
योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् ॥ २५ ॥
तेनाविष्टः सहसा भीतो वज्री तमाययौ शरणम् ।
सोमोऽस्तु देवभिषजोरिति चोवाच प्रणष्टधृतिः ॥ २६ ॥
मुनिरपि करुणासिन्धुर्भीतं प्रणतं महेन्द्रमावास्य ।
मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु ॥ २७ ॥
सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये।
निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः ॥ २८॥
मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् ।
भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् ॥ २९ ॥
जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु ।
वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् ॥ ३०॥
स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् ।
गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् ॥ ३१ ॥
उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् ।
गण्डेषु कुञ्जराणां बर्हे शिखिनां गतेषु हंसानाम् ॥ ३२ ॥
इत्येवं मदनामा महामहो बहुविकारदृढमोहः ।
अङ्गे काष्ठीभूतो वसति सदा सर्वभूतानाम् ॥ ३३ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णनं नाम षष्ठः सर्गः ।
सप्तमः सर्गः।
अर्थों नाम जनानां जीवितमखिलक्रियाकलापस्य ।
तमपि हरन्त्यतिधूर्ताः श्लक्ष्णगला गायना लोके ।। १ ॥
निःशेष कमलाकरकोषं जग्ध्वापि कुमुदमाखाध ।
क्षीणा गायनभृङ्गा मातङ्गप्रणयतां यान्ति ॥ २ ॥