सततभ्रुकुटिकरालः परुषाक्रोशी हठाभिघातपरः ।
अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥ ११ ॥
पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः ।
कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः॥ १२ ॥
वर्जितसकलस्पर्शः सर्वाशुचिभावनानिरालम्बः ।
आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः ॥ १३ ॥
सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति ।
वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ॥ १४ ॥
पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः ।
क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् ॥ १५ ॥
विद्यापति विप्रजने गवि हस्तिनि कुक्कुरे श्वपाके च ।
मद्यमदः समदर्शी स्वपरविभागं न जानाति ॥ १६ ॥
विगलितसदसद्भेदः समकाञ्चनलोष्टपाषाणः ।
प्राप्तो योगिदशामपि नरके क्षीबः स्वयं पतति ॥ १७ ॥
रोदिति विहसति गायति विलपत्युच्चैरुपैति संमोहम् ।
भजते विविधविकारान्संसारादर्शमण्डलः क्षीबः ॥ १८ ॥
परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् ।
क्षीबोऽतिगाढरागं पीत्वा मधु वीतरागः किम् ।। १९॥
विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीबः ।
अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् ॥ २० ॥
च्यवनः पुरा महर्षियौवनमश्विप्रयोगतो लब्ध्वा ।
यज्ञे खयं कृतज्ञस्तौ चक्रे सोमपानाहौँ ॥ २१ ॥
क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न जानासि ।
भिषजावपङ्क्तियोग्यौ सोमार्हावश्विनौ यज्ञे ॥ २२ ॥
इति बहुशः सुरपतिना प्रतिषिद्धोऽपि स्वतेजसा च्यवनः ।
न चचाल निश्चितामा निजकृत्यादश्विनोः प्रीत्या ॥ २३ ॥
पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/७१
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
काव्यमाला।
