पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३सर्गः]
५७
कलाविलासः।


निखिलजनवञ्चनार्जितमलिनधनं रागदग्धहृदयानाम् ।
स्वादति गुणगणभग्नो नमो हीनोऽथवा कश्चित् ॥ १३ ॥

नीचस्तुरगारोहो हस्तिपकः स्वलतरोऽथवा शिल्पी ।
वञ्चितसकलजनानां तासामपि वल्लभो भवति ॥ १४ ॥

राजा विक्रमसिंहो बलवद्भिर्भूमिपैः पुरा विजितः ।
मानी ययौ विदर्भान्गुणयशसा मत्रिणा सहितः ॥ १५ ॥

तत्र स वेश्याभवनं प्रविश्य मु भुवि विश्रुतां विलासवतीम् ।
भेजे गणिकां बहुधनभोग्यामप्यल्पविभवोऽपि ॥ १६ ॥

तं राजलक्षणोचितभाजानुभुजं विलोक्य पृथुसत्त्वम् ।
विविधमणिकनककोषं चक्रे सा तद्व्ययाधीनम् ॥ १७ ॥

सहजमनुरागमद्भुतमौचित्यं वीक्ष्य भूपतिस्तस्याः ।
विस्सयविवशः प्रेम्णा जगाद विजने महामात्यम् ।। १८ ॥

चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् ।
प्रीतिपदवी विसृष्टो वेश्यानां धननिबन्धनो रागः ॥ १९ ॥

मिथ्या धनलवलोमादनुरागं दर्शयन्ति बन्धक्यः ।
तदपि धनं विसृजति या कस्तस्याः प्रेमिण संदेहः ॥२०॥

इति वचनं भूमिपतेः श्रुत्वा मन्त्री विहस्य सासूयः ।
तमुवाच करय राजन्वेश्याचरितेऽस्ति विश्वासः ॥ २१ ॥

एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः ।
वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥ २२ ॥

प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः ।
पर्यन्ते दुःखफलाः पुंसामाशाश्च वेश्याश्च ॥ २३ ॥

अद्यापि हरिहरादिमिरमरैरपि तत्त्वतो न विज्ञाताः।
भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥ २४ ॥

इति सचिवयचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन ।
मिथ्याभृतमात्मानं चके वेश्यापरीक्षायै ॥ २५ ॥

 ६ प्र्अ. गु.