तस्मिन्कु[१]णपशरीरे विन्यस्ते मन्त्रिणा चितावह्नौ ।
सहसैव विलासक्ती वह्निभुवं भूषिता प्रययौ ॥ २६ ॥
तां प्रबलज्वलितोज्ज्वलवहिज्वालानिपातसावेगाम् ।
दोर्भ्यामालिङ्ग्य नृपो जीवामीत्यभ्यधान्मुदितः ॥ २७ ॥
तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः ।
राजा निनिन्द मन्त्रिणमसकद्वेश्यागुणाभिमुखः ॥ २८ ॥
अथ वेश्याधनसंचयमात्माधीनं महीपतिर्विपुलम् ।
आदाय गजतुरंगमभटविकटामाददे सेनाम् ॥ २९ ॥
संभृतविपुलबलौधैर्जित्वा वसुधाधिपान्स भूपालः ।
निजमाससाद मण्डलमिन्दुरिवानन्दकृत्पूर्णः ॥ ३० ॥
सा चान्तःपुरकान्तामूर्ध्नि कृता भूभुजा विलासवती।
शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी ॥ ३१ ॥
साथ कदाचिन्नरपतिमेकान्ते विरचिताञ्जलिः प्रणता।
ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्या॥ ३२ ॥
यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः ।
तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन ॥ ३३ ॥
पुण्यफलपाप्यानां हृतपररजसां स्वभावविमलानाम् ।
तीर्थानामिव महतां नहि नाम समागमो विफलः ॥ ३४॥
अभवन्मम कोऽपि युवा दयितो धनजीविताधिकः प्रणयी ।
बद्धः स विदर्भपुरे दैववशाञ्चोररूपेण ॥ ३५ ॥
तन्मुक्तये मया त्वं शक्कतरः सेवितो महीनाथः ।
अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य ॥ ३६ ॥
इति वचनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्था ।
सुचिरं विलोक्य वसुधां सस्मारामात्यवचनं सः ।। ३७ ॥
१. शवशरीरे.
- ↑ १