पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
काव्यमाला।


चतुर्थः सर्गः।

तत्रापि वेशयोषाः कुटिलतराः कूटरागहतलोकाः ।
कपटचरितेन यासां वैश्रवणः [१]श्रमणतामेति ॥ १ ॥

हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः ।
नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः ॥ २ ॥

वेशकला नृत्यकला गीतकला वक्रवीक्षणकला च ।
कामपरिज्ञानकला ग्रहणकला मित्रवञ्चनकला च ॥ ३ ॥

पानकला केलिकला सुरतकलालिङ्गानान्तरकला च ।
चुम्बनकला परकला निर्लज्जावेगसंभ्रमकला च ॥४॥

ईर्ष्याकलिकेलिकला रुदितकला मानसंक्षयकला च ।
स्वेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला च ॥ ५ ॥

नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च ।
विरहासहरागकला कोपप्रतिषेधनिश्चयकला च ॥६॥

निजजननीकलहकला सद्धुहगमनोत्सवेक्षणकला च ।
हरणकला जातिकला केलिकला चौरपार्थिवकला च ॥ ७ ॥

गौरवशैथिल्यकला निष्कारणदोपभाषणकला च ।
शूलकलाभ्यङ्गकला निद्राक्षिरजस्वलाम्बरकला च |॥ ८॥

रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च ।
संत्यक्तकामुकाहृतिदर्शनयात्रास्तुतिकला च ॥ ९॥

तीर्थोपवनसुरालयविहरणहेलाकला गृहकाला च।
वश्यौषधमन्त्रकला वृक्षकला केशरञ्जनकला च ॥ १० ॥

भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च ।
खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या ॥ ११ ॥

अज्ञातनामवर्णेष्वात्मापि ययार्प्यते धनांशेन ।
तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ १२ ॥



१. श्रमणो बाद्धभिक्षुः वेश्यानुरागी धनाधिनापोऽपि भिक्षुकत्वं प्रामोतीति मायः