पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
काव्यमाला।

किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वा ।
मतिविभवः सहजो वा वञ्चकतां येन यातोऽसि ।। ६३ ॥

कस्य न दयितं वित्तं चित्तं हियते न कस्य वित्तेन ।
किंतु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ।। ६४ ॥

मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन ।
लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् ॥ ६५ ॥

त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् ।
गृह्णाति यः स मध्ये धूर्तानां कदृशो धूर्तः ॥ ६६ ॥

उत्सृज्य साधुवृत्तं कुटिलधिया वञ्चितः परो येन ।
आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥ ६७ ॥

नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव ।
अपवादविषतरूत्थैरामोदैर्मूर्छिता लक्ष्मीः ॥ ६८॥

नहि नाम सज्जनानां शुद्धयशःस्फटिकदर्पणो विमलः ।
परिभवदुःखितजनतानिःश्वासमलिनतामेति ॥ ६९ ॥

असमञ्जसमतिमलिनं मोहाद्व्याक्तिं समागतं कर्म ।
तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव ॥ ७० ॥

अपवादधूलिधूसरममलयशो मृज्यतां स्वहस्तेन ।
अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् ॥ ७१ ॥

इत्युक्तः सानुनयं त्रिभुवनगुरुणापि देवदेवेन ।
परधननिबद्धतृष्णः प्रोवाच कृताञ्जलिः शुक्रः ।। ७२ ॥

भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् ।
लक्षयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् ॥ ७३ ॥

यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति ।
कार्याकार्यविचारो द्रविणादानेषु कस्तस्य ॥ ७४ ॥

मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् ।
वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये ॥ ७५ ॥