पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२ सर्गः]
४९
कलाविलासः।

अभ्येत्य याचितोऽपि त्यक्त्वा लजां मया विगतलजः ।
चिच्छेदेष ममाशां सहसा प्रतिषेधशस्त्रेण ॥ ७६ ॥

तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् ।
विहितं शठेन मोहादाशाभङ्गः कृतो येन ॥ ७७ ॥

तस्मान्ममैष शत्रुः सुकृतसमं शत्रुवञ्चनापापम् ।
रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः ॥ ७८ ॥

अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् ।
वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥ ७९ ॥

संभाषिणमसकृद्दैत्यगुरुं प्रार्थित पुनर्बहुशः ।
कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः ॥ ८० ॥

जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाभोगे ।
प्रक्काथ्यमानकायः शुक्रथुक्रोश साक्रोशः ॥ ८१॥

त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः ।
निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि ॥ ८२ ॥

अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले ।
शुक्रश्चुकोश भृशं धोरगमीरे हरोदरे पतितः ॥ ८३ ॥

तमुवाच देवदेवस्त्यज दुर्ग्रहदग्ध परवित्तम् ।
अस्मिन्नुदरमहोदधिवडवाग्नौ मा गमः प्रलयम् ॥ ८४ ॥

सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलाग्नो ।
परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छ्वासः ॥ ८५ ॥

पुनरपि घोरतरोद्गतकालानलघारणानलज्वलितः ।
शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः ॥ ८६ ॥

स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे ।
तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः ॥ ८७ ॥

एवं खभावलुब्धास्तीव्रतरां यातनामपि सहन्ते ।
न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् ॥ ८८ ॥