कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये ।
सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् ॥ ५० ॥
हस्तन्यस्खललाटः सह [१]शङ्खमुकुन्दकुन्दपद्माद्यैः ।
संचिन्त्य शुक्रविकृतिं स जगादोणं विनिःश्वस्य ॥ ५१ ॥
सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलुब्धेन ।
धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण ॥ ५२ ॥
अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः ।
कथयामि कस्य दुःखं करोमि किं वा क गच्छामि ॥ ५३ ॥
धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति ।
परिभूतस्य शरीरे व्यसनविकारो महाभारः ॥ ५४ ॥
दयितेषु शरीरवतां बत धर्मलतालवालेषु ।
द्रविणेषु जीवितेषु च सर्वं याति प्रयातेषु ॥ ५५ ॥
विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः ।
वित्तेन भवति सर्यो विचविहीनस्तु सद्गुणोऽप्यगुणः ॥ ५६ ॥
इति दुःसहधनविरहक्लेशानलशोषिताशयो वनपः ।
सुचिरं विमृश्य सचिवैर्देवं शर्वं ययौ शरणम् ।। ५७ ॥
प्राक्प्रतिपत्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन ।
विज्ञप्तो निजवृत्तं दूतं विससर्ज शुक्राय ॥ ५८ ॥
दूताहूतं सहसा प्राप्तं शुक्रं [२]धनप्रभाशुकम् ।
अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् ॥ ५९ ॥
मित्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन ।
मित्रद्रोहे प्रसरति नहि नाम जनः कृतघ्नोऽपि ।। ६०॥
अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन ।
स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥ ६१॥
एतरिकं श्रुतसदृशं त्वह्व्रतयोग्यं कुलानुरूपं वा ।
कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥ ६२ ॥
१. शङ्खादयो निधयः कुबेरसमीपे तिष्ठन्ति.
२. धनप्रातिजनितकान्त्या शुक्रं शुक्लम्,देवीप्यमानमिति यावत्