पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
काव्यमाला।

   
एवं स्वभावलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः ।
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ३७॥

देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् ।
शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्रमभ्येत्य ।। ३८ ॥

पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः ।
हर्षं विदधाति परं सुहृदां शोकं च शत्रूणाम् ॥ ३९ ॥

त्वयि सुहृदि वित्तनाथे निःस्वोऽहं बहुकुटुम्बसंभारः ।
समदुःखसुखं मित्रं स्वाधीनतयोदितं प्रशंसन्ति ॥ ४० ॥

यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् ।
अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् ॥ ४१ ॥

उपनतमतिपुण्यचयैः संपूर्ण रक्षितं च यत्नेन ।
संपदि विपदि त्राणं भवति निधानं च मित्रं च ॥ ४२ ॥

इत्युक्तः सप्रणयं दैत्याचार्येण निर्जने धनदः ।
तमुवाच विचिन्त्य चिरं संरुद्धः सेहलोमाभ्याम् ॥ ४३ ॥

जानामि बालमित्रं त्वामहमत्यन्तसंभृतस्नेहम् ।
किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि ॥ ४४ ॥

त्नेहार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्राणि ।
दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥ ४५ ॥

अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थानाम् ।
योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ ४६ ॥

इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन ।
भग्नमुखो ललितमतिर्लज्जावक्रो थयौ शुक्रः ॥ ४७ ॥

स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी ।
हर्तुं द्रविणमशेषं विवेश हृदयं वनेशस्स ४८॥

शुक्राविष्टशरीरो वैश्रवणः सकलमद्भुतत्यागः ।
तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः ॥ ४९ ॥