पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
काव्यमाला।


यथा कालिदासस्य-

'इदमसुलभवस्तुप्रार्थनादुर्निवारः
प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
किमुत मलयवातान्दोलितापाण्डुपत्रै-
रुपवनसहकारैर्दर्शितेप्वङ्कुरेषु ॥’

अन्न प्रारम्भ एवं ममेदं मनः पञ्चबाणः सुदुर्लभवस्तुप्रार्थनादुर्निवारः शकलीकरोति । किमुत लीलोद्यानसहकारैर्मलयानिलान्दोलितबालपल्लवै- रङ्कुरेषु दर्शितेष्वित्युक्ते मदनस्य पञ्चबाणाभिधानमुचितमेव ।।

यथा वा मम बौद्धावदानलतायाम्-

'तारुण्येन निपीतशैशवतया सानाङ्गशृङ्गारिणी
तन्वङ्ग्या सकलाङ्गसङ्गमसखी भङ्गिनिवाङ्गीकृता ।
निःसंरम्भपराक्रमः पृथुतरारम्भाभियोगं विना
साम्राज्ये जगतां यया विजयते देवो विल्मसायुधः ।'

अत्र यौवननिपीतशैशवतया तन्वङ्ग्यानशृङ्गारवति सर्वाङ्गसंगमसखी सा काप्यभिनवा भङ्गिरङ्गीकृता यया निष्प्रयलपराक्रमः प्रभूततरारम्भसं- भारं विहाय त्रिभुवनसाम्राज्ये जयति देवो विलासायुष इत्युक्ते कामस्य विलासायुध इति नामोपपन्नमेव । तन्वङ्गीभङ्गायैव सिद्धत्रैलोक्याधिपत्यवि- जिगीषायां कामसायकादीनां नैरर्थक्यात् ।। न तु यथा कालिदासस्य-

'कोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
तावत्स बहिर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ।'

अत्र पश्यतो भगवतस्त्रिनेत्रस्य स्मरशरनिपातक्षोभे वर्ण्यमाने तन्निका- रकोपशमाय संहर संहर प्रभो क्रोषमिति यावद्वचः खे देवानां चरति तावद्भवनेत्रोद्भवः स वह्निर्मदनं भस्म्राशिशेषमकार्षीदित्युक्ते संहारावसरे स्व्रस्य भवाभिधानमनुचितमेव ॥