पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
औचित्यविचारचर्चा


आशीर्वचनौचित्य दर्शयितुमाह-

पूर्णार्थदातुः काव्यस्य संतोषितमनीषिणः ।
उचिताशीर्नृपस्येव भवत्यभ्युदयावहा ॥ ३९ ॥

संपूर्णार्थसमर्पकस्य संतोषितविदुषः काव्यस्य नृपतेरिवोचितमाशी:- पदमभ्युदयावहं भवति ॥ यथास्मदुपाध्याय[१]गङ्गकस्य-

'स कोऽपि प्रेमार्द्रः प्रणयपरिपाकप्रचलितो
विलासोऽक्ष्णां देयासुखमनुपमं वो मृगहदृशाम् ।
यदाकूतं दृष्ट्वा पिदधति तुणविवरे
निरस्तव्यापारा भुवनजयिनः पञ्च बिशिखाः ।।"

अत्र स कोऽप्यसामान्यप्रेमप्रणयविश्रान्तिप्रगल्भकुरङ्गदृशा निरुप- मो नयनविलासः सुखं वो देयात् । यदभिप्रायमालोक्य भुवनजयिनः का- मस्य पञ्च सायकाः समाप्तव्यापारास्तूणीरविवरे लज्जयेव मुखं पिदधती- त्युक्ते सुखं वो देयादित्याशी:पदमुचित्तमेव । प्रियानयनविभ्रमस्य सुखा- र्पणयोग्यत्वात् ॥ यथा वा मम वास्यायनसूत्रसारे

'कामः कामं कमलवदनानेत्रपर्यन्तवासी
दासीभूतत्रिभुवनजनः प्रीतये जायतां वः ।
दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहार्हा
यस्याधिक्यं रुचिरतितरामञ्जनस्येव याता॥'

अत्र कामः प्रीतये वो जायतां यस्य दग्धस्याप्यञ्जनस्येवाधिक्यं रूचिः र्योतेस्युक्ते प्रीतये जायतामित्युचितं कामस्य प्रीत्यात्मकत्वात् ॥ नतु यथामरुकम-

'बालोलमलकावली विलुलितां बिभ्रञ्चलत्कुण्डलं
किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां सीकरैः ।



१.क्षेमेन्द्रस्योपाध्यायो गङ्गकः ।