पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
औचित्यविचारचर्चा ।


यथा मम मुनिमतमीमांसायाम्-

"अश्वत्थामवधाभिधानसमये सत्यव्रतोत्साहिना
मि[१]थ्या धर्मसुतेन जिह्मवचसा हस्तीति यद्व्याहृतम् ।
सा सत्यामृतरश्मिवैरमसमं संसूचयन्त्याः सदा
शङ्के पङ्कजसंश्रयेण मलिनारम्भा विजृम्मा श्रियः ॥'

अत्र द्रोणनिधनाख्याने सत्यव्रतोत्साहवता धर्मतनयेनापि मिथ्या ल-. घुवचसा कुञ्जर इति यदुक्तं सा सततं सत्यचन्द्रद्वेषं सूचयन्त्याः श्रियः शङ्के पङ्कजसंश्रयेण मलिनव्यापारा विजृम्भेत्यभिहिते ससंवादलक्ष्मीस्व- भावपरिभावनतया तत्वावबोधेन मूलविश्रान्त्या फलपर्यवसायी विचार: सहृदयसंवेद्यमौचित्यं व्यनक्ति ॥ न तु यथा मम तत्रैव-

’प्रम्लाने चिरकालवृत्तदयिताकेशाम्बराकर्षणे
क्रूर राक्षसवैशसं यदि कृतं भीमेन दुःशासने ।
तत्कालक्षमिणा कुशाश्मपरुषारण्यप्रवासे चिरं
किं पीतं तत तापमग्नमहिषस्वेदाम्बुपृक्तं पयः ॥

अत्र भीमसेनचरिते विचार्यमाणे त्रयोदशवर्षपर्युषिते कृष्णाकेशाक- र्षणपराभवे भीमेन भीमं राक्षसकर्म दुःशासने यदि कृतं तत्सद्यःकृतार्द्रा- पराधकालक्षमिणा सुचिरं दर्भसूचीविषमाश्मपरुषवनवासे कि ग्रीष्मताप- निमग्नमहिषस्वेदस्त्रुतिपृक्तं पयः पीतमित्यनुपपन्नकृत्येऽभिहिते कारण- विचाराभावान्निर्मूलोपालम्ममात्रमनौचित्यमनुबध्नाति ।। नामौचित्यं दर्शयितुमाह--

नामा कर्मानुरूपेण ज्ञायते गुणदोषयोः ।
काव्यस्य पुरुषस्येव व्यक्तिः संवादपातिनी ॥ ३८ ॥

काव्यस्य कर्म औचित्यं तेन नाम्ना पुरुषस्येव गुणदोषव्यक्तिः संवा- दिनी ज्ञायते॥



१. 'धर्मस्यापि सुतेन हती द्वितीयपुस्तकपाट.