भव कुपिता तुभ्यं नो दास्यामीति तेनोच्चैः प्रत्यायनापहवनवोन्मेषप्रज्ञा-
चातुर्यचारुवचनमौचित्यचमत्कारं करोति ॥
यदाह [१]भट्टतौतः–'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता' इति ॥
न तु यथा मम तत्रैव-
निर्याते दयिते गृहे विशयने निर्माल्यमाल्ये हृते
प्राप्ते प्रातरसारागिणि परे वारावहारेऽन्यया ।
द्वारालीनविलोचना व्यसनिनी सुप्ताहमेकाकिनी-
त्युक्त्वा नीविविकर्षणैः स चरणाघातैरशोकीकृतः ।
अत्र वेश्या व्यालयकामुकस्य वारावहारं विधाय नवकामुकेन सह क्ष- पायां नीतायां प्रभाते तसिन्निर्याते शय्याकुसुमादिसंभोगलक्षणे निवारिते वारवञ्चनकुपिते गाढानुराग ग्रहग्रस्तमतौ पूर्वकामुके प्राप्ते त्वदालोकनका- ङ्क्षिणी व्यसनिनी द्वारन्यस्तनयनाइमेकाकिनी सुप्तेति प्रत्यायनावचनविली- नमन्युसरभससरसनीविकर्षणोधताकृतिकृतेर्ष्याकोपया चरणनलिनप्रहारै- रशोकीकृतः । शङ्काशल्योन्मूलनान्निःशोकः संपादितः । संततपुलकाङ्कु- रत्वादशोकतरुतुल्यतां नीत इति वा वाक्यार्थः। केवलसत्यविप्रलम्भप्राग- ल्भ्यमात्रमेव गणिकाया गाढरागमूलतां च प्रतिपादयति । न तु प्रतिभोद्भू- तामौचित्यकणिकां सूचयति ॥ अवस्थौचित्यं दर्शयितुमाह-
अवस्थोचितमाधत्ते काव्यं जगति पूज्यताम् ।
विचार्यमाणरुचिरं कर्तव्यमिव धीमताम् ॥ ३६॥
अवस्थोचिततया कान्यं जगति श्लाध्यतामायाति । मतिमतामिव कृत्यं विचारनिर्घर्षरुचिरम् ॥ यथा मम लावण्यवत्याम्-
'मुक्तः कन्दुकविभ्रमस्तरलता त्यतैव बाल्योचिता
मौग्ध्यं निर्घतमाश्रिता गजगतिभ्रूलास्यमभ्यस्यते ।
१. अभिनवगुप्ताचार्यस्योपाध्यायो भट्टतौतः,
- ↑ १