पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
काव्यमाला

कृतरुचिरविचारं सारमेतन्महः-
रहमिति भवभूमिर्नाहमित्येव मोक्षः ॥'

अत्र भगवद्गीतार्थविचारे सारसंग्रहोऽभिहितः, यत्किल मुनिभिरनेक- भेदभिन्नशास्त्रजडैरभिनिविष्टमतिभिस्तत्त्वमुपादेयं न किंचित्कथितम् । भ- गवतो महर्षेव्यासस्य सुमतेविमलविचारोत्तीर्णं निश्चितमेतदेव । यदहंकारः संसारमूलभूमिर्ममतापरित्याग एवं मोक्ष इति तत्संक्षेपेण भवक्षयोपदेशः प्रकृतार्थस्य परममौचित्यं पुष्णाति ।। न तु यथा परिव्राजकस्य-

'तपो न तप्तं वयमेव तप्ता भोगा न भुक्ता वयमेव भुक्ताः ।
जरा न जीर्णा वयमेव जीर्णास्तृष्णा न याता वयमेव याताः ॥'

अत्र वयमेव वप्ता भुक्ता जीर्णा याता इत्युक्ते निःसाराचारुत्वादपर्य- वसितो वाक्यार्थः फलशून्यतया सारसंग्रहोचितं न किंचित्प्रतिपादयति ।। प्रतिभौचित्यं दर्शयितुमाह----.

प्रतिभाभरणं काव्यमुचितं शोभते कवेः।
निर्मलं सुगुणस्येव कुलं भूतिविभूपित्तम् ।। ३५ ।।

प्रतिभालंकृतं कवेः काव्यमुचितं गुणवतः कुलमिव विमलं लक्षम्या प्रकाशितं शोभते ।। यथा मम लावण्यवत्याम्-

'अदय दशसि कि स्वं बिम्बबुद्ध्याधरं में
भव चपल निराशः पक्कजम्बूफलानाम् ।
इति दयितमवेत्य द्वारदेशाप्तमन्या
नि[१]गदति शुकमुञ्चैः कान्तदन्तक्षतौष्ठी ।'

अत्र कयापि द्वारदेशाप्तं प्रियं ज्ञात्वा अन्यकामुकवचनखण्डितौष्ठ्या संप्रति तवागमनानभिज्ञयेव शुकमाद्दिश्य यदुक्तं निर्दय किं त्वं बिम्बफल- बोभादधरं मम विदारयसि । पक्कानां जम्बूफकानामिदानीं चपलनिराशो



१.द्वितीयपुस्तके "न्यगदत" इति पाठ