पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
काव्यमाला।

 
यन्न[१]र्मोमिषु निर्मितं मृगदृशा वैदग्थ्यदिव्यं वच-
स्तद्विद्मः सुभगाभिमानल[२]टभाभावे निबद्धो भरः ॥'

अत्र यदुक्तं कन्दुकक्रीडा त्यक्ता, बालचापल्यं परिहृतम्, मोग्ध्यं निरस्तम्, गजगतिरङ्गीकृता, भ्रूलतालास्याभ्यासः क्रियते, नौर्मोर्मिषु वत्तनवैचिच्य- मासूत्रितम्, तेन जानीमहे शैशवावस्थां समुत्सृजन्त्या यौवनमाश्रयन्त्या प्रौढताभनारूढयापि नवसंभोगगौरवगर्भेण सुभगाभिमानेन लटभाभावे बा- लया भरो निबद्ध इत्यभिहिते [३]स्फुटमृदुसंनद्धा(?) वयोवस्थामध्यसंधिवर्ण- नायामौचित्यं स्फुरदिवावभासते ॥ न तु यथा राजशेखरस्य-----

ज्यायान्धन्वी नवधृतधनुस्ताम्रहस्तोदरेण
क्षत्रक्षोदव्यतिकरपटुस्ताटकाताडकेन ।
कर्णाभ्यर्णस्फुरितपलितः क्षीरकण्ठेन सार्धं
योद्धं वाञ्छन्न कथममुना लज्जते जामदग्र्यः ।।'

अत्र भार्गवः स्थविरावस्थास्थितः स्थिरतरपराक्रमकर्कशप्रौढो धनुर्षर: शिशुना रामेण धनुर्ग्रहणारुणितकोमलकरकमलतलेन क्षत्रियक्षयसंरम्भप्र- गल्भरताटकाताडकेन स्फुरदाकर्णपलितः संभाव्यमानजननीस्तनक्षीरकण्ठे- नामुना युयुत्सुः कथं न लज्जत इत्युक्ते पेशलतया राघवावस्थायां जाम- ददयावस्थाविपरीतायां प्रतिपाद्यमानायां ताटकाताडकेनेति विरुद्धावाविवा- सोऽर्थः किमप्यनौचित्येन चेतसि संकोचमादधाति ।। विचारौचित्यं दर्शयितुमाह-

उचितेन विचारेण चारुतां यान्ति सूक्तयः।
वेद्यतत्वावबोधेन विद्या इव मनीपिणाम् ॥ ३७॥

विचारौचित्येन सूक्तयश्चारुतां यान्ति । ज्ञेयस्वरूपज्ञानेन विद्या श्व विदुषाम्॥



१. 'नर्मोक्तिषु' इति द्वितीय पुस्तकपाठ। २. प्रगल्भाङ्गनाभावे. ।
३. 'स्फुटध्रिया' इति द्वितीयापुस्खकपाठ: ।