पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
काव्यमाला।


यथा दीपकस्य-

'श्येनाङ्घिग्रहदारितोत्तरकरो ज्याप्र[१]कोष्ठान्तर
आताम्राघरपाणिपादनयनप्रान्तः पृथूरःस्थलः ।
मन्येऽयं द्विजमध्यगो नृपसुतः कोऽप्यम्ब निःशम्बल:
पुत्र्येवं यदि कोष्टमेतु सुकृतैः प्राप्तो विशेषातिथिः ।'

अत्र खैररमणी रमणीयं दिनावसाने युवानं पथिकमालोक्याभिप्रायसू- चकं जननीमेवं ब्रूते । यदसौ राजपुत्राकृतिः श्येनग्रहनाराचपरिचयोचितः सायं समये प्राप्त इत्युक्ते मात्राप्यभिप्रायपूरकमभिहितम् । पुत्रि यद्येव तत्कोष्ठाङ्कं प्रविशतु सुकृतविशेषोऽतिथिः प्राप्तः पूज्य इत्येतेन स्फुटाभि- प्रायसूचकमौचित्यमुपचितमाचकास्ति ।। न तु यथास्यैव-

'अयि विरहविचित्चे भर्तुरर्थे तथार्ता
सपदि निपतिता त्वं पादयोश्चण्डिकाया।
स्वयमुपहित्तधूपस्थालकच्छत्रशृङ्गो-
हलितमपि ललाटं येन नैवाललक्षे ॥'

अत्र विनयवत्याः सुचिरात्पत्यावागते ललाटनखोल्लेखापह्नववचने सख्या समुपदिश्यमाने हे विरहोन्मते भर्तुरर्थे चण्डिकापादपतने स्वयं स्थापितधू-. पस्थालकोटिक्षतमपि न लक्षितं भवत्या ललाटमित्युक्तौ स्वैरापह्नवशिक्षामा- त्रमेबोपलक्ष्यते । न तु तस्याः सख्या वा कश्चिदभिप्रायविशेषः ॥ समावौचित्यं दर्शयितुमाह-


स्वभावौचित्यमाभाति सूक्तीनां चारभूषणम् ।
अकृत्रिममसामान्यं लावण्यमिव योषिताम् ॥ ३३ ॥

स्वभावोचितत्वं कविवाचामाभरणमाभाति । अकृत्रिममनन्यसामान्यं लावण्यमिव ललनानाम् ॥ यथा मम मुनिमतमीमांसायाम्---

'कोर्णोत्तालितकुन्तलान्तनिपतत्तोयक्षणासङ्गिना
हारेणेव वृतस्तनी पुलकिता शीतेन सीत्कारिणी।



१. 'प्रकोष्टान्तिक' इति द्वितीयपुखका द्वितीयपारे 'चाताम्राधर -' इति पाठोयुक्तः।