पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right१४३
औचित्यविचारचर्चा ।

 
निर्धौताञ्जनशोणकोणनयना सानावसानेऽङ्गना
प्रस्सन्दत्कर्बद्रीर्रा न कुरुते कस्य स्पृहार्द्रं मनः ॥'

अत्र व्याससूनोः शुकस्य गाढवैराग्यनिःसङ्गस्य गगनगङ्गातीरे स्नानो- त्तीर्णास्त्रिदशयोषितो विवसनास्तदर्शननिःसंकोचाः पश्यतः प्रशमविमलम- नसः सरव्यतिकरनिर्विकारतायां प्रतिपाद्यमानायां कर्णमूलोत्क्षिप्तालक- पर्यन्तनिपतत्तोयकणसंतानेन स्तनयोः कृतिमुहूर्तहारविभ्रमा, शीतेन रोमाञ्च- सीत्कारिणी, धौताञ्जनारुणनयनान्ता प्रस्रवन्मुक्तकेशकलापा, खानोत्तीर्णा तरुणी कस्य स्पृहाद्रं न मनः करोतीत्युक्ते स्वयमार्द्रस्वभावः परमप्यार्दी- करोतीत्युचितमेतत् ।। नतु यथा मम तत्रैव-

'भक्तिः कातरतां क्षमा सभयतां पूज्यस्तुतिदीनतां
धैर्यं दारुणतां मतिः कुटिलतां विद्याबलं क्षोभताम् ।
ध्यानं वञ्चकतां तपः कुहकतां शीलवतं षण्डतां
पैशुन्यत्रतिनां गिरां किमिव वा नायाति दोषार्द्रताम् ॥

अत्र पिशुनस्वभावे वर्ण्यमाने भक्त्यादीनां गुणानां वैपरीत्ये प्रतिपा- दिते पिशुनानां वचसां किं वा दोषार्द्रतां नायातीत्यमिहिते स्वयमनार्द्रस्व- भावस्य परार्द्रीकरणमनुचितमेव ॥ सारसंग्रहौचित्यं दर्शयितुमाह-

सारसंग्रहवाक्येन काव्यार्थः फलनिश्चितः।
अदीर्घसूत्रव्यापार इव कस्य न संमतः ॥ ३४ ॥

सारसंग्रहवाक्येन काव्यार्थः सुनिश्चितफलः शीघ्रकारिण :इव व्यापारः कस्य नाभिमतः॥ यया मम मुनिमतमीमांसायाम्--

'विविधगहनगर्भग्रन्थसंभारभारै-
र्मुनिबिरभिनिविष्टैस्तत्त्वमुक्तं न किंचित् ।

१४ . प्र. गु