पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
औचित्यविचारचर्चा


यथा मम चित्रभारते नाटके-

'नदीवृन्दोद्दामप्रसरसलिलापूरिततनुः
स्फुरत्स्फीतज्वालानिबिडवडवाग्निक्षतजलः ।
न दर्पं नो दैन्यं स्पृशति बहुसत्त्वः पतिरपा-
मवस्थानां भेदाद्भवति विकृति व महताम् ॥

अत्र पयोधिव्यपदेशेन युधिष्ठिरस्य सत्त्वोत्कर्पे ऽभिधीयमाने सरित्पूर- प्रवार्धिततनुर्वडवाग्निनिष्पीतश्च नोत्सेकं न संकोचमब्धिर्विपुलसत्त्वः स्पृशति । न ह्यवस्थानां भेदान्महाशयानां विकारी भवतीत्युक्ते गम्भीरधीरा सत्त्ववृ- तिरौचित्यमातनोति ।। न तु यथा [१]भट्टेन्दुराजस्थ---

'आश्चर्य वडवानलः स भगवानाश्चर्य मग्मोनिधि-
यत्कातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते ।
एकस्याशयघस्मरस्य पिबतस्तृप्तिर्न जाता जलै-
रन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि जातः श्रमः ॥'

अत्र वडवानलसमुद्रयोः सत्वमहत्वे बक्ष्यमाणे नातिविपुलाशयत्वा- देकस्य पिबतः पयोभिस्तृप्तिर्न जाता, द्वितीयस्य तदुपजीव्यमानस न मनागपि खेदः, तदेतदुभयमाश्चर्यमित्युक्ते निःसंतोषतया सततया च कस्य न बड़वागेर्लज्जा । न च जलनिधेराश्रितकार्थिपूरणसामर्थ्यमित्यसत्त्वे सत्त्व- स्तुतिरनौचित्यमावह्ति ॥ अभिप्रायौचित्य दर्शयितुमाह-


अकदर्थनया सूक्तमभिप्रायसमर्पकम् ।
चित्तमावर्जयत्येव सतां स्वस्थमिवार्जवम् ।। ३२ ॥

अक्लेशेनाभिप्रायसमर्पकं काव्यं हृदयमावर्जयति । सज्जनानां निर्मल- मार्जवमिव ।।



१. श्रीमदभिनवगुप्ताचार्यस्य गुरमहन्दुराजा,